पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [ (५८.)क. २२. (१) अजामेकां लोहित शुक्लकृष्णा बढी प्रजां जनयन्ती सरूपाम् । अजो होको जुषमाणोऽनुशेने जहात्येनां भुक्तभोगामजोऽन्यः, इति च मन्त्रान्तरम् । अहन्यमानस्य न खसौ शरीरे हन्यमानेऽपि हन्यते (२)तथा चोक्त भगवता-(३) न हन्यते हत्यमाने शरीर' इति । विकल्मषस्य निर्लेपस्या सर्व एव हि धर्माधर्मादिरन्तःकरणस्य धर्मः, आत्मनि त्वध्य. स्तः । एवंभूतस्यात्मनः सर्व एव प्राणिन• ब्रह्माद्यास्तिर्यगन्ताः प्राणादि- मन्तः संघाता पू पुरं उपभोगस्थानम् । यथा राजा पुरमधिवसन् सचिवैरानीतान् भोगानुपभुले, तथाऽयं देवादिशरीरमधिवसन करणे. रुपस्थापितान् भोगानुपभुङ्क्ते । तमेवभूतमचलं सर्वगतत्वेन निश्चलम् । चलनिकेतं निकेतं स्वस्थान शरीरं तद्यस्य चलं तं येऽऽतिष्ठन्ति उपासते एवंभूतोऽहमिति प्रतिपद्यन्ते, तेऽमृता मुक्ता भवन्तीति ! ४ विवरणम् । कथं तदनुष्ठानमिति १ उच्यते- यदिदमिदिहेदिह लोक विषयमुच्यते। विधूय कविरेतदनुतिष्ठेद्गुहाशयम् ॥ ५ ।। यदिदं प्रत्यक्षतोऽवगम्यमाने घ्यन्नपानादिसंभोगलक्षणम् । इदिति किञ्चिदर्थे । यत्किञ्चिदिदं प्रत्यक्षम् । इहाऽस्मिन् लोके । विषयम् । इदंशब्दसामानाधिकरण्यानपुसंकलिङ्गप्रयोगो विषयमिति । उभयलि. को वा विषयशब्दः। द्वितीय इच्छब्द इहशब्दश्च । तयोः क्वचिन्नियो गः । इच्छब्दश्चार्थे । इहशब्दोऽमुख्मिन्नर्थे । लोकशब्दः काकाक्षिवदुभ- यत्र सम्बध्यते । इह लोके इह च लोकेऽमुर्विमश्च यदिदं विषयमुच्यते, स्वर्गादिलोके पावस्थमध्यस्थो व्यपदिशलि इह लोके इति च लोके इत तत्सर्व विधूय परित्यज्य । कचिः कान्तदर्शी, मेधावीत्यर्थः । फलं सा. धनं च तविधूय एषणानयाद व्युत्थायेत्यर्थः । अनुतिष्ठद् गुहाशयं य. थोक्तलक्षणमात्मतत्त्वम् ॥५॥ उज्वला। विषयसपरित्यागेनाऽयमुपास्य इत्याह- यदिद, विषय, मेतदिति सर्वत्र लिङ्गव्यत्ययश्छान्दसः। एवमितिशब्दे तकारस्य दकारः । इतिशब्दः प्रसिद्धौ । हशब्द आश्चर्ये । इतिशब्देना. १.ते. या (नारायणोपनिषदि ) १०.१. २. 'तथा चोक्तं भगबता--न हन्यते हन्यमाने शरीरे।' इति नास्ति क, पुस्तके. ३. भगवद्गी, २. २०.