पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधास्त्र भवति सोमयं न करोति तावदमोज्यान. ॥ २३ ॥ अग्नीषोमीय संस्थायामेव ॥ २४ ॥ मोक्तव्यमिति वक्ष्यमाणमपेक्षते । अग्नीषोयीये पशौ संस्थिते समाप्त एव भोक्तव्यम् । न प्रागिति ॥ २४ ॥ पक्षान्तरमाह- हुतायां वपायां दीक्षितस्य मोक्तव्यम् ॥ २५ ॥ अग्नीषोमीयस्थ वपायां हुताया वा दैक्षितस्यान्न भोक्तव्यम् । तथा च बढ. चब्राझणम्-'अशितव्यं वपाय हुतायाम्' इति ॥ २६ ॥ पक्षान्तरमाह- (१)यज्ञार्थे वा निर्दिष्ट शेषाद्भुञ्जीरनिति हि ब्राह्मणम् २६ इदं यज्ञार्थमिति ध्यादेशे कृते शेषा औरनिति ब्राह्मणं भवति । ब्राह्मणग्रहण प्रीत्युपलब्धित' प्रवृत्तेरपस्मृत्तिता मा भूदिति प्रत्यक्षमेवान ब्राह्मणमिति ॥२६॥ क्लीबः ॥ २७॥ पण्डका । लोऽयमोज्यान. ॥ २७ ॥ राज्ञां प्रेषकरः ॥२८॥ राज्ञामिति बहुवचनात् श्रामादेर्यः प्रेषकरः तस्यापि प्रतिषेधः ॥२८॥ अहविर्याजी ॥ २९ ॥ यश्चाऽहविषा नररुधिरादिना यजतेऽभिचारादौ यथा 'यममिवरे- त्तस्य लोहितमवदानं कृत्वे ति सोऽप्यभोज्यानः ॥ २९ । चारी ॥ ३०॥ चारो गूढचरः स्पशः सोऽप्यभोज्याम्नः ॥ ३० ॥ तावत्पर्यन्तमि यर्थ । प्रथमदिने 'अपराहे दीक्षयेत्' इति अपराहृ दीक्षा विहिता । ततः पूर्व दीक्षणीयेष्टि । तत्समनन्तरदिने सोमक्रयण विहितम् । ततश्च प्रथमदिनेऽपरावा. दनन्तर द्वितीयदिनमध्याह्वात् पूर्व दीक्षितानं न भोक्तव्यमित्ति फलितम् । इदं चैकदीक्षा- पक्षे । अनेकदीक्षापक्षे तु तदनुरोवेन दिनसंख्यावृद्धिः प्रत्येतव्या ।। १.Cf. आप श्री १० १५ १६.