पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोज्यानाः] उज्ज्वलोपते प्रथमः प्रश्नः । अविधिना च प्रजितः ॥ ३१ ॥ यश्चाऽविधिना प्रत्रजितः शाक्यादिस्सोऽप्यभोज्या ॥३१॥ यश्चाऽग्नीनपास्यति ॥ ३२॥ (१)(योऽनापद्याग्निं त्यक्त्वा प्रायश्चित्तं न करोति सोऽप्यभोज्यानः । अपि च) अविधिनेत्येव । यश्चाविधिना उत्सगष्टया विनाम्ननिपास्यति सोऽयमोज्यानः॥३२॥ यश्च सर्वान् वर्जयते सर्वानीच श्रोत्रियो निराकृति- घषलीपतिः ॥ ३३ ॥ यश्च सर्वान वर्जयते भोजने न क्वचिद्भुत ल कश्चिद्भोजयति स सर्ववर्जी। यश्च सर्वाना सर्वेषामने मुझे तावुभावप्यभोज्यानो । श्रोत्रिय इत्युभयोश्शेषः । श्रोत्रियोऽपि सन्नभोज्यान पवेति । निराकृतिः निःस्वा. भ्यायः । निर्वत इत्यन्ये । सोऽप्यभोज्यान । वृषलीपतिः क्रमविवाह यस्य वृषली पत्नी जीवति इतरा मृताः स वृषलीपतिः । ल श्रोत्रियोऽप्य. भोज्यान्न इति॥३३॥ इत्यापस्तम्बधर्मसूत्रवृत्तावष्टादशी कण्डिका ॥१८॥ Ort मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युप. वेशयते तावन्तं कालम् ॥ १ ॥ मदकरद्रव्यसेवया (२)विकृति गतो मत्तः । उन्मत्तो म्रान्तः। बद्धो निगलितः । अणिकः पुत्रात् श्रुतग्राही, पुनाचार्य इति शास्त्रेषु निन्दितः। प्रत्युपविष्ट ऋणादिना कारणेनाऽधमर्णार्दिक निरुध्य तत्पार्श्व उपविष्टः । प्रत्युपेवशयिता वितरः, तस्य परिहारमकुर्वस्तन सह काम सुचिरमास्थतामित्यासीनः । ता एते मत्तादयस्तावन्तं कालमभो ज्याना, यावन्मदाद्यनुवृत्तिः । अपर आह-अणिकः ऋणस्य दाता प्रत्युपवेष्टुरिदं विशेषणमिति ॥ १ ॥ क आश्यान्न:॥ २॥ योते अभाज्यानोः कस्तर्हि भाश्यान्नः ? कस्य तीनमशनीयमिति । १. कुण्डलान्तर्गतोऽधिकः क पु २.अप्रकृति इति. ख, पु.