पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभाज्यानाः] उज्वलोपते प्रथम प्रश्नः। परिक्रुष्टं च ।। १७॥ 'भोक्तुकामा आगच्छत' इत्येवं परिक्रुश्य सर्वत आहूय यहीयते तत्परिझुटं तदभोज्यम् ॥ १७ ॥ सवैषां च शिल्पाजीवानाम् ॥ १८ ॥ चित्रनिर्माणादिकं शिल्प ये आजीवन्ति(१) तेषां सर्वेषामपि ब्राह्म णादीनामन्नमभोज्यम् ॥ १८ ॥ ये च शस्त्रमाजीवन्ति ॥१९॥ ये च शस्त्रेण जीवन्ति तेषामध्यन्नमभोज्यम् । क्षत्रियवर्जम, (२)त स्य विहितत्वात् ।।१९।। ये चाऽऽधिम् ॥२०॥ आजीवन्तीत्यपेक्षते । स्वगृहे परान् वासयित्वा तेभ्यो भृत्तिग्रहणमा. वि, यः स्तोम इति प्रसिद्धः। परभूमौ कुटिं कृत्वा स्तोमं दत्वा वखेनु यः ॥ इति । तं चाऽधिं ये आजीवन्ति तेषामध्यभमभोज्यम् । ये तु प्रसिद्धमा धिमाजोवन्ति तेषां वाधुविकत्वादेव(३) सिद्धो निषेधः ॥ २० ॥ भिषक् ॥ २१॥ अभोज्यान इति प्रकरणागम्यते । भिषक् भैषज्यवृतिः। धर्मार्थ तु ये सर्पदष्टादींश्चिकित्सन्ति ते भोज्यान्ना एव ।। २१ ॥ वाधुषिकः ॥ २२ ॥ वृद्धाजीवी । सोऽप्यभोज्यानः ॥ २२ ॥ दीक्षितोऽक्रातराजकः ।। २३ ।। दीक्षितो४) दीक्षणीयेष्टया संस्कृतः सोऽपि यावत् क्रीतराजको ने १ आजीवन्ति इत्यन्नतरं 'आजीवन्ति तेन ये जीवन्ति' इत्यविकं क. पु. २. तस्य विहितत्वात् , इति नास्ति क. पु. ३. अभोज्यानत्वं सिद्धम् , इति ख ग. पु. ४. ज्योतिष्टोमे-'आम्नायैष्णवमेकादशकपालं निर्वपेत् दीक्षिष्यमाणः, इत्यनेन दक्षिणीयेष्टिनाम काचिदिष्टिविहिता । सा च यजमानसस्कारार्धा, इति निणीत पूर्वमीमा. सायां पञ्चमाध्यायें । तया संस्कृतो यजमानो यावत् यागार्थद्रव्य सोमलता न कोणाति आप०ध०१४