पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसत्रे [(प.६)क, १८. ब्राह्मणस्यान प्रकृया स्वभावेनैव भोक्तव्यम् । कारणादेव स्वभोज्यम्॥१०॥ कारणमाह-- यत्राऽप्रायश्चित्तं कर्माऽऽसेवते प्रायश्चित्तवति ॥ ११ ॥ (१) यत्र यदा वैश्वदेवाग्निहोत्रादीनि नित्यमाभ्युदयिक वाऽपाय- श्चितं कर्माऽऽसेवत तात्पर्येण करोति प्रायश्चित्तवत्यायनि चोदितं प्रा. यश्चित्तं (२)प्राणायामोपवासविधिकृच्छ्रादि न करोति तदा एत. स्मात् कारणात ब्राह्मणस्थाऽनमभोज्यामिति ॥ ११ ॥ चरितनिषस्थ भोकच्यम् ॥ १२ ॥ चरितो निर्वेषः प्रायश्चित्तं येन तस्या भोक्तव्यम् । तद्भोजने न दोषः । निष्ठया भूतकालस्याऽभिधानाचर्यमाणेऽपि निषे न भोक्तव्यम् । कि नहि ? चरिते ॥ १२ ॥ सर्ववर्णानां स्वधमें वर्तमानानां भोक्तव्यं शुद्रवर्जमित्य के ॥ १३ ॥ शूद्रवर्जितानां स्वधर्मे वर्तमानानां त्रयाणां वर्णानामन्नं भोज्यम् । न ब्राह्मणस्यैवेत्येकै मन्यन्ते ॥ १३ ॥ तस्थाऽपि धर्मापनतस्य ॥१४॥ तस्याऽपि शूद्रस्याउन भोज्यम् , यद्यसो धर्मार्थमुपनतः आश्रितो . वति । धर्मग्रहणादर्थार्थमुपनतस्याऽभोज्यम् । आपत्कल्पश्चाऽयम् ॥१४॥ सुवर्ण दत्वा पशु वा भुञ्जीत नाऽत्यन्तमन्वय स्थेवृति प्राप्य घिरमेत् ॥ १५ ॥ गतम् ॥ १५॥ सङ्कानमभोज्यम् ॥ १६ ॥ सङ्घो गणः तस्य यत् स्वमन्न न खेकस्य । तदभाज्यं यद्यपि ते १. यन्त्र यदा अग्निहोत्रवैश्वदेवायकरणे प्रायश्चितं मुक्त्वा तदनुरूप, नित्यमाभ्यु. दपिक का कर्मासेक्ते तात्पर्येण करोति न प्रायश्चित्तवस्थात्मनि चोदिते प्रायश्चित्त, तदैत- स्मात्कारणादभोज्यमिति इति • कपु.. २ प्राणायामपथिकृदादि इति. ख. पु