पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभोज्यानि ] उज्वलोपत्ते प्रथमः प्रश्नः । यन्त्र शुद्र उपस्पृशेत् ॥१॥ भोजनदशायां यदा शूद्र उपस्पृशेत् सदापि न भुजीत । अत्र भुजान। ग्रहणादन्यदा शूद्रस्पर्श नाऽप्रायत्यमिति केचित् । अन्ये तु-सदा भव- स्येवाऽप्रायत्यम्, भोजनदशा त्वाधिक्यप्रतिपादनाय निषेध इति॥१॥ अनर्हद्भिर्वा समानपतौ ॥ २ ॥ सतत्र वाशब्दः समुच्चये। अभिजनविद्यावृत्तरहिता अनर्हन्तः । तैस्सह समानायां पड्डौ न भुञ्जीत ॥ २॥ भुञ्जानेषु वा यन्नाऽभूत्थायोच्छिष्टं प्रयच्छेदाचामेवा ॥३॥ समानपताविति वर्तते । समानपतो बहुषु भुझानेषु यद्यको नित्थाय भोजनाद्विरम्य उच्छिष्ट शिष्यादिभ्यः प्रयच्छेत् आचामेद्वा, सस्यां पङ्क्तावितरेषा न भोक्तव्यम् । अतो बहुषु भुञ्जानेषु(१) एको मध्ये न विरमेत् । भोजनकण्टक इति हि तमाचक्षते ॥३॥ कुत्सयित्वा वा यन्नाऽन्नं दाः ॥४॥ मूर्ख, वैधयेय, विष भुधेति, एवं कुत्सयि वा यत्रान्न दास्तदप्य भोज्यम् ॥ ४॥ मनुष्यैरवध्रातमन्यैर्वाऽमेध्यैः ॥ ५ ॥ मनुष्यैरन्यैवी मार्जारादिभिरमेध्यैरवघ्रातमश्चमभोज्यम् । (२)अवेत्युपसर्ग- योगात् दूरस्थगन्धाघ्राणे न दोषः ॥ ५ ॥ नमावि भुशीत ॥ ६॥ नाम्यासीनो न भुञ्जीत, शुद्धेऽपि पात्र ॥६॥ तथा प्रासादे ॥ ७॥ प्रासादो दारुमयो मञ्चः। तत्रापि न भुजीत ॥ ७॥ कृतभूमौ तु भुञ्जीत ॥ ८ ॥ भूमावपि भुजानः कृतायां गोमयादिना संस्कृतायां भुञ्जीत । (३)अपर आह-प्रासादोऽपि यदा मृदा कृतभूमिभवति; न केवलं दारुमयः, तदा तत्र भुञ्जीतैवेति ॥ ८॥ १. कोऽपि. इति. ग, पु. २ अवोपसर्गयोगात् इति क. पु. ३. इदं व्याख्यान्तर नास्ति. ग. पुस्तके ।