पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसन [(प.५)क, १७, अनापीते मृण्मये भोक्तव्यम् ॥ ९ ॥ यदि मृण्मये भुञ्जीत तदाऽनाप्रीले भोक्तव्यम् । आप्रीतं कचित्कार्ये पाका दावुपयुक्तम् ।।९। आप्रीतं चेदभिदग्धे ॥ १० ॥ आप्रीत मेध चेल्लभ्यते, तदाऽग्निनाऽभितो दग्ध्वा तत्र भोक्तव्यम् ।। परिस्कृष्टं लोहं प्रयतम् ॥ ११ ॥ लौह लोहविकारभूतं कांस्यादि भोजनपानं भस्मादिभिः परिभृष्टं सत् प्रयत भवति । तत्र भस्मना कांस्यम् । आम्लेन ताम्रम् । राजतं शकृता । सौवर्णमद्भिरेवत्यादि स्मृत्यन्तरवशाद्रष्टव्यम् ॥ ११ ॥ निलिखितं दारुमयम् ॥ १२ ॥ दारुमयं भाजनं निलिखितं तष्ट सत् प्रयतं भवति ॥१२॥ यथागमं यज्ञे ॥ १३ ॥ यक्षपात्रं तु यथागम शोधितं प्रयत भवति । तद्यथा अग्निहोत्र. इचणी दभैरद्भिः प्रक्षालिता, सोमपात्राणि (१ भाजीलीये प्रक्षालितानि, आज्यपात्रापयुष्णन वारिणा ॥ १३ ॥ नाऽऽपणीयमनमश्नीयात् ।। १४ ।। आपणः पण्यवीशी। तत्र यत्क्रति लब्ध वा । तदापणीयम् । तच्च कृनानं नाश्नीयात् । ब्राह्मादिषु न दोषः ॥ १४ ॥ तथा रसानामाममांसमधुलवणानीति परिहाप्य ॥१५॥ रसाः रसद्रव्याणि । तानप्यापणीयानाश्नीयात् । (२)आममांसादि वर्जयित्वा ॥ १५॥ तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ॥ १६ ॥ तैलसर्पिषी स्वापणीये अप्युपयोजयेत् । उदकेऽवधाय निषिव्य पाकेन तैल- सर्पिषी(३)शाधयित्वा । कार्यविरोधो यथा न भवति तथा उदकेन सं. सृज्येत्यन्ये(४)॥ १६ ॥ १. माजालीय. सोमयामे सदोनामकमण्डपस्याग्नेयकोण स्थितः स्थानविशेषः । २. आममांसादीनि परिहाप्य, इति ग पु. ३. शोषयित्वा इति ग. पु. ४ व्यावक्षते इत्यधिकं ख. ग. पु