पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५.५.)क. १६. अमेध्यैः कलापलण्ड्वादिभिश्वमृष्ट स्पृष्टमभोज्यम् ॥ २५ ॥ कालो वाऽमेधसेवी ।। २६ ।। यस्मिश्चाने केशः स्यादिति व्यवहितमवि सम्बध्यते । अमेध्य सवी कीटः पूत्यण्डाख्यः ॥ २६ ॥ मूषिकलाङ्गं बा ॥ २७ ॥ पूर्ववत्सम्बन्धः । मूषिकला मूषिकपूरीषम् । अङ्ग वा ! समस्तमपि भूषिक ग्रहण सम्बध्यते । यस्मिन्नन्ने मूषिकस्याङ्गं पुच्छपादादि भवति तदप्यभोज्यम् ॥ २७॥ पदा वोपहतम् ॥ २८॥ प्रयतेलाऽपि पदा यत्स्पृष्टं तदप्यमोज्यम् ॥ २८ ॥ सिचा वा ।। २९ ।। सिक वस्त्रदशा । परिहितस्य वाससः सिचा यत् स्पृष्टं तदप्य. भोज्यम् ॥ २९ ॥ शुना वाऽपपात्रेण वा दृष्टम् ॥ ३० ॥ दृष्टमिति प्रत्येकमभिलम्बध्यते । शुना वा दृष्टमपपात्रेण वा दग्नं यत्तद- प्यभोज्यम् । पतितसूतिकाचण्डालोरक्यादयोऽपपात्रा:, अपगता या. बेस्य: । न हि ते पाने भोक्तुं लभन्ते ॥ ३०॥ सिचा वोपकृतम् ॥ ३१ ॥ अपरिहितस्य शुद्धस्यापि वाससस्सिचा यदुपहृतमान तं तदथ्य: भोज्यम् ॥ ३१ ॥ दास्था वा नक्तमाहतम् ।। ३२ ।। दास्या रात्राचाहनमभोज्यम् । स्त्रीलिङ्गनिर्देशात् दालेनाऽऽहते न दोषः। अन्ये लिङ्गमविवक्षित मन्यन्ते । 'नत'मिति वचनाहित्वान दोषः ॥ ३२॥ मुञ्जानं वा ॥ ३३ ॥ ॥ इत्यापस्तम्बधर्ममत्रवृत्ती षोडशी कण्डिका ॥