पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ आपस्तम्बधर्मसूत्रे । (प.५.)क.१६ आने का शकृदोषधीभूमि बा ॥ १५ ॥ (१)उपस्पृशेदित्येव । विनाशब्दस्सम्बध्यते लिङ्गवचनादिविपरि- णामेन । आई वा शकृदुपस्पृशेत् औषधीर्वा आ, भूमि वा आर्द्राम् । पूर्वोक्ते. वेव (२)कल्पेषु चैकल्पिकमिदम् ।। १५ ।। एबमाचमनं (३)सह निमिचैरुक्तम् । अथाऽभक्ष्याधिकार:- हिंसानाऽसिना मांसं छिन्नमभोज्यम् ॥१६॥ असिग्रहणं क्षुरादेरुपलक्षणम् । यन्मासं पाककाले हिसार्थेनाऽसिना छिन्न तदभोज्यम् ॥ १६ ॥ दद्भिरपूपस्य नाऽपच्छिन्द्यात् ।। १७ ।। अप्पग्रहणं मूलफलादेरप्युपलक्षणम् । द्वितीया षष्ठी। दन्तैरपूप नापच्छिन्द्यात् । किं तु हस्तादिमिरपच्छिद्य अक्षयेत् ॥ १७ ॥ यस्य कुले म्रियेत न तत्रानिदेशे भोक्तव्यम् ॥१८॥ यस्य कुले कश्चिन्मियते असपिण्डतायां सत्यां (४)लानिर्गते दशाह न भोक्तव्यम् । 'अनिदो' इत्याशौचकालस्योपलक्षणम् । तेन क्षत्रियादि- घधिक पक्षिपयादिषु न्यूनम् ॥ १८ ॥ तथाऽनुस्थितायां सूतकायाम् ॥ १९ ।। सूतका सुतिका । तस्यामनुस्थितायाम् । उत्थानं नाम मृतिकामारे नि. वेशितानामुदकुम्भादीनामपनयनम् । तच्च दशमेऽहनि भवति । (५) दशम्यामुत्थिताया मिति गृह्ये उक्तत्वात् । अवाप्याशौचकालोप- लक्षणवाद्यावदाशौचमभोजनम् । अनाऽङ्गिरा:- 'ब्रह्मक्षत्रविशां भुक्त्वा न दोषस्त्वग्निहोत्रिणाम् । सूतके शाज आशौच स्वस्थिसञ्चयनात्परम् ॥ इति ॥ १९ ॥ अन्तःशवे च ॥ २०॥ १. उपम्पृशेदिति विपरिणामेनेत्यन्तो भाग फ. पुस्तके नास्ति । २. 'सर्वेषु' इति न च, पु । स्वल्पेषु इति ग, पु.। ३. सनिमित्त मिति ख. पु. ५. 'तत्रातीते दशाह भोक्तव्यम्' इति म पु. ५. आप, ग. १५८