पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आचमनविधिः ] उज्ज्वलोपत्ते प्रथमः प्रश्नः । न इमश्रुभिरुच्छिष्टो भवत्यन्तरास्ये सद्भिः धन्न हस्तेनोपस्पृशति ।। ११ ।। श्मशूणि यदा आस्यस्यान्तर्भवन्ति तदा तैरन्तरास्ये सद्भिन्छिष्टो न भवति यावन्न हस्तेनोपस्पृशति । (१)उपस्पर्शने तूच्छिष्टो भवति । ततश्चाऽऽचामेदिति । अस्मादेव प्रतिषेधात् ज्ञायते-यत्किञ्चिदपि द्रव्य मन्तरास्ये (२)सदुच्छिष्टताया निमित्तमिति ॥ ११ ॥ य आस्थाद्विन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् ॥ १२ ॥ भाषमाणस्याऽऽस्यात् पतन्तो ये लालाबिन्दव उपलभ्यन्ते चक्षुषा स्प- र्शनाखा उपलब्धं योग्यास्तेष्वाचमनं विहितम् । वेदोचारणे तु गौतमः- (३) मन्त्रब्राह्मणमुच्चारयतो ये विन्दवः शरीर उपलभ्यन्ते न तेवा. चमन मिति ॥ १२॥ ये भूमौ न तेष्वाचामेदित्येके ।। १३ ॥ ये बिन्दयो भूमौ पतन्ति, न शरीरे, तेषु नाचामेदित्येके मन्यन्ते । स्वमत तु तेवप्याचामेदिति ॥ १३ ॥ स्चमे क्षवधौ (४)शिङ्कगणिकारवालम्भे लोहितस्थ केशानामनेर्गवां ब्राह्मणस्य स्त्रियाश्चालम्भे महापथं च गत्वाऽमेधं चोपस्पृश्याऽप्रयतं च मनुष्यं नीची च परि. धापाऽप उपस्पृशेत् ॥ १४ ॥ स्वतः (५)स्वापः । शवयु. क्षुतम् , तयोः कृतयोः शिवाणिका नासिकाम- लम् । अश्रु नेत्रजलम्, तयोरालम्भे स्पर्श । लोहितस्य रुधिरस्य । केशाना शि. रोगतानां भूमिगताना च । अग्न्यादानां चतुर्णामालम्भे । महापथं च गत्वा । अमेध्य च गोष्यतिरिक्तानां मूत्रपुरीषादि । ताम्बूलनिषेकादि चोपस्पृश्य । अप्रयतं च मनुष्यमुपस्पृश्य । नीवी प्रसिद्धा तद्योगादधोवासो लक्ष्यते । तच्च परिवायाप उपस्पृशेत् । केचित् स्नानं केषुचिदाचमनं केषुचित् स्पर्शनमात्र यावता प्रयतो मन्यते ॥१४॥ १.स्पर्शने इति क. पु. २. सत् तदुच्छिष्टलाया निमित्तमिति क. पु. ३. नास्ति वचनमिद मुद्रितगौतमधर्मकोशेषु मदीये लिखितपुस्तके च । ४, शृङ्खाणिका शृङ्खणिका शृङ्गाणिका इत्यपि पाठाः । ५. स्वापन इति ख. पु.