पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभोज्यानि ] उज्वलोपेते प्रथमः प्रश्नः । याव(१)द्वामान निर्हियते शवः तावत्तत्र न भोक्तव्यम् । आचारस्तु धनुश्शतादाक् । तत्रापि प्रदीपमारोग्य उदकुम्भ बोपनिधाय भुञ्जते यदि (२)लमानवशं गृहं न भवति ॥ २०॥ अप्रयतोपहतमन्नमप्रयतं न त्वभोज्यम् ॥ २१॥ अप्रयतेनाऽशुचिना उपहतं स्पृष्टमप्रयतं भवति । किंतु अशुद्धमप्यभोज्यं न भवति । कः पुनरप्रयतस्याऽभोज्यस्य च विशेषः १ उच्यते-अप्रयत मन्नमग्नावधिश्रितमद्भिःमोक्षितं भस्मना मृदा वा संस्पृष्ट वाचा च प्रशस्तं प्रयतं भवति भोज्यं च । अभोज्यं तु लशुनादि न कथाश्चि दपीति ।। २१ ॥ अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ॥ २२ ॥ अप्रयतेन तु शूदेणोपहृतमानीतमन्नं न भोज्यम् , स्पृष्टमस्पृष्टं च । स्पृष्टमे वेत्यन्ये ॥२२॥ यस्मिश्चाऽऽन्ने केशरस्यात् ।। २३ ॥ तदप्यभोज्यम् । एतच्च पाकशायामेव पतितेन केशेन सह यत्प. कमग्नं तद्विषयम् । (३)पश्चात् केशसंसर्ग तु घृतप्रक्षेपादिना संस्कृतस्य भोज्यत्वं स्मृत्यन्तरोक्तम् ॥ २३ ॥ अन्धद्वाऽमेध्यम् ॥२४॥ अन्यद्वाऽमेध्य ननादि यस्मिन्नन्न स्थात् तदध्यभोज्यम् । इदमपि पूर्ववत । अत्र बौधायन:- (४) केशकीटनखरोमाखुपुरीषाणि दृष्ट्वा तावन्मात्रमनमुद्धृत्य शेषे भोज्यामिति । वसिष्ठस्तु (५) कामं तु कैश कीटानुत्सशद्भिः प्रोक्य भस्मनावकीर्य वाचा प्रशस्तमुपयुञ्जीतेति ॥ २४ ॥ अमेध्यैरवमृष्टम् ॥ २५ ॥ १ प्रामान्तं न इति क. पु. २. समानवंशत्वं गृहाणा इति ख. पु. । समानं वंशगृहं न भवति इति क. पुस्तकेऽपाठः। ३. भोजनकाले तु केशपाते घृतप्रक्षेपादिना तु संस्कृतं भोज्यम् । इति. घ. पु. ४ ची ध. २. १२.६ ५ वा. ध १४ २३ उपभुजीत इति ग, पु.