महत्स्वनिवेद्य आत्मीयं विषयं नपारयत्येकोपि मुखितुम् ॥ सति च महदाश्रये गौरवमन्यादृशं वस्तूनां । उपला अपिमिहिरकरसंस्पर्शमवाप्य प्रज्वलन्ति महत्या शिखया ॥ अनुगृह्यताम् एष क्षणदानेन येनात्मवृत्तं निवेदयिष्यते
इति ॥ तदनु कोदोषः कथ्यतां उदन्तः संक्षेपेण आवश्यकश्चार्थो याच्यतामिति गुरुवचनादिष्टः न्यवेदयत् ॥ ब्रह्मसन्ततिरहं काश्यपवंश्यः वियुक्तो मातरपितृभ्यां विषण्णः वेदाद्ध्ययनेच्छुः वीतरागिणां भवतां पादमूलमुपागमम् । विश्वोपकारदक्षेषु गुरुषु निवेदितनिवेदनीयाः सर्वेपि जगति कल्याणभाजो भवंति ॥ न ह्यलं लब्धुमाचार्यादन्यमभिमन्ये ॥ सिद्ध्यंति खलु
'प्रार्थिता अर्थास्सतामनुग्रहेण । नजानामि विशिष्य वदितुं । नहि ऋते
भवद्भ्यः ममान्यच्छरणं । युष्माकमन्तेवासितया आत्मनः कुशलमाधातुकामोस्मि सर्वधा अहमशक्तोस्मि अगतिरस्मि अतिदुःखितोम्मि अन्धोस्मि अनर्थाकूपारपतितोस्मि ॥ इयतः कालस्य नकिमपि पठन् न किंचिदपि विचारयन् नानर्थमुत्पश्यन् न हीनतामात्मनो गणयन् विहारपरायणः तैस्तैः ब्राह्मणब्रुवैः यः कदर्यजनैश्चाविमुक्तपार्श्व: अपप्तं महानर्थसागरे ॥ एतदुद्धरणे च विना भवदीयमनुग्रह न किञ्चिदुत्प्रेक्षे ॥ तत्परिगृह्यतामयं । उपनीयतां औचित्येन ॥ नियम्यतां नियोगेषु । मम सवयसश्च संगृहीतसर्वविद्याः सागरा इवाक्षोम्यहृदयास्संति ललामभूताः कुलस्याश्रमस्यच ॥ तेषां दर्शनेन विषीदतिहृदयं । ग्लायन्त्यङ्गानि । शुष्यतिजिह्वा । उद्भ्रमति दृष्टिः। खिद्यति आत्मा। न प्रसरति पाणिपादं । किं बहुना सुधाशनमपि विषायते ॥ हंतहंत ॥ अहन्तु दर्पभरेणवा अज्ञानविजृंभणेनवा अपितृकस्वभावतयावा आत्मीयकर्मपरिणामेनवा कालकौटिल्येनवा भवितव्यताप्राबल्येनवा न जाने केन हेतुना एवमवस्थोस्मि संवृत्तः । सदानिन्दंति मातरपितृयोनयः । परिहसंति पामराः । विगर्हयंति विद्वांसः । प्रदूषयंति प्रकृष्टकुलाः विद्रावयति बन्धुता । विषादयंतिवीतस्पृहामुनयः । परित्यजंतिसनाभयः । बहिष्कुर्वंति ब्रह्मनिष्ठाः। धिक्कुर्वंति धिषणाशालिनः । सत्यंपरितपामि। किमयं कामवादभक्षाचारम्समुचितः कुलस्यवर्णनीयः प्रथमवर्णस्य अभि-
पृष्ठम्:अष्टावक्रीयम्.pdf/९
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
७
अष्टावक्रीयम् ।