यश्चतस्यां कल्याण्यां शीतांशुमिवक्षीरनिधिः मंदमास्तमिव मलयाचल: मुक्ताफलमिवत्वक्सारः मुक्तिमिवज्ञानोदयः परमापूर्वमिव कर्मजातः भूषणं कुलस्य भीषणं पापानां निष्कोषणमविद्यान्धकारस्य तोषणं विबुधजनानां उपबृह्मणं ब्रह्माद्वैतभावस्य निराकरणं नीचतमवृत्तीनां उदाहरणं साधुकुलस्य पद्मनाभमिव संप्राप्तकमलाश्लेषं उदयगिरिमिव परमहंसोपसेव्यमानपादं पाश्चात्यसन्ध्यासमयमिवानुरक्तगृहपतिमंडलं पूतञ्च ब्रह्मेवश्रुतिप्रतिपाद्यमानगुणगणं श्वेतकेतुनामानं पुत्रमजीजनत् ॥ यश्चापरित्यक्तशैशवया अक्लिष्टरूपया अनवद्यांगया शोभयेवमणिः शिखयेवदीपः सत्यवतीनाम्न्या
एकद्वहायन्या कन्यया भूषितश्च रराज ॥
तस्यचैवंभूताय पादमूलमासेव्य बहवस्तांस्तानर्थानवापुरह्नाय ॥ केचन धार्मिकाः धर्ममर्माविधां प्रश्नानामुचितमुत्तरं प्रतिगृह्य अपरिच्छिन्नमानंदमन्वभूवन् ॥ अन्येचषदीयमनुष्ठानमनुक्षणं पश्यन्तोदुरूहार्थेषुमिथोभिन्नेषुच
वैदिकवचस्सुतिष्ठन्ते ॥ अपरेच यदीयसूक्तिसुधामास्वाद्य तृणायापि न मन्यंते म्वर्भोगान् । किंबहुना समागतास्सर्वेपि समाहितविचित्रशक्तिकाः सारतमार्थनिर्णायकाः सफलविज्ञानसंपदः सातिशयमेव स्वस्वं वर्गं प्रत्यतिष्ठिपन् पातुकेतरस्मिन्पथि ॥ एवं शिक्षणमाचरतोस्य शक्तिंपाधुतां वैदुषीञ्च विश्वत्र विसृत्वरीमुपश्रुत्य विद्याजिघृक्षुतया प्रेर्यमाण इव विमुच्य विषादं विचरन्
पदेपदे उद्दालाकाश्रममुद्दिश्य पृच्छन् आधाय धैर्यसंपदमस्याश्रमस्योपकण्ठमुपसर्पन् कहोडनामा कश्चनमुनिकुमारक: अनुपनीतः षोडशवर्षदेशीयः अन्तिकस्थवेशन्तस्यावतारतटमधिष्ठाय कृताध्वश्रमविनोदनः पयसा परिमार्जन्नङ्गकानि पर्यालुलोचे "क्वमहाप्रभावोमहातपसां श्रेष्ठः परमर्षिरुद्दालकोनाम । क्वचेदमप्राप्तसंस्कारमतिकिल्बिषभाजनं वस्तु ! नूनं गयानुष्ठितचराण्यवदातकर्माणि । येन एतदीयसन्दर्शनसुखमनुभाविष्यते। उपासितानिदैवतानि ।
वन्द्याश्च वन्दिताः । प्रदक्षिणीकृताश्चप्राञ्चः । नह्यकृतसुकृतानामकृष्टपच्यमिव ईदृशंपदमवाप्यते । अत्रस्थित्वा परिचरतः परमर्षिं प्रायेण कलाः प्रादुर्भविष्यंति । जननान्तरीयं खलु कर्म जनयति शुभं जातस्य । श्रूयंतेचैहिकानिकल्याण-
पृष्ठम्:अष्टावक्रीयम्.pdf/७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
५
अष्टावक्रीयम् ।