समयसमुदितसरसललितपुण्डरीकप्रमीलनैः महितमहाश्वेतायमानकुमुदिनीकुलाकुलैः इन्द्रायुधप्रभाविच्छुरितोपांतभूमिभिः संहृष्यत्कपिञ्जलभरितैः सीमान्तसंभूतैः परोपकृतिबोधनायेव मूर्ध्ना विधृतफलजालैः शीततरच्छायावितरणपटुभिः नाळिकेरतरुप्रच्छन्नप्रान्तकेदारः हरिणगणचर्व्यमाणकुशाग्रमेदुरः पुरःप्रदेशम् , उपागतानामतिथीनां जलाशयेन पाद्यविधिमुपकल्पयन् परिणतफलभरावननश्शाखिभिस्सन्तर्पितातिथिवर्ग: द्वारांगण समुह्यमाननीवारराशिः अतिहृष्टमुनिदारककुल प्रणयपरिकल्पितालवालोदको पच्छन्दितविहंगमव्यूहः, क्वचिच्छिप्यजनतासमुच्चितानाार्द्रारण्यक पावन गोमयपिण्डासितप्राङ्गणः उपरितनवलभीपरिचयसमुत्कण्ठितपारावतकुलकलरवाप्यायितागन्तुककर्णविवरः परिसंख्यात शुष्कसमित्कुशमुष्टिडोलामनोहर नागदन्तयुगलः छादिषेयपलालपुञ्जपिञ्जरभूितोपांगणशोभः सन्निहितहोमधेनुखुरपुटोल्लिख्यमानाजिरभूमिः उत्प्लवमानतर्णकगणानुसरणश्रान्तमृगपोतमुख भ्रष्टमीकुराचितः अनवरतानुष्ठीयमानेज्यावृतमैत्रावरुणशस्त्रध्वनिमुखरितः पृषदाज्यहविर्गन्धिपवनपाविताशान्तराळ वेदिकाप्रान्तपरिकलितकमण्डलुपुण्ट्रपेटिकाचमनीयादिपात्रवर्ग: उदयगिरिरिव पतितद्विजराजोदयकारी अन्तरिक्षभाग इव सप्तर्षिकुलमंडितः मानससरोवर इव परमहंसालंकृतः मीमांसान्याय इव विशिष्यकृताधिकरणमाल: विनतानन्दन इव अमृताहारापनीतश्रमः जीर्णतरुरिव प्रच्छायप्रदाननिपुणः पलितशिरोभिः पारायणपरायणैः वेदान्तविज्ञानकौतुकिभिः मूर्तैरिवसदाचारैरध्ध्यासिताग्निहोत्रशरणभागः कैश्चित्पठद्भिरन्यैश्चपाठयद्भिः कैश्चित्संदिहानैरपरैश्च निश्चिन्वद्भिः कैश्चित्पूर्वपक्षोपक्षेपकुशलैः अन्यैश्च राद्धांतप्रदर्शकैः कैश्चिद्व्याकृतितंत्रप्रयोजनं विचारयद्भिः अन्यैश्च न्यायीयसंबन्धनिवेशनशिक्षणमारचयद्भिः परैश्चाधिकरणभेदं सप्रकारं सयुक्तिकं च तन्त्रे प्रतिष्ठापयद्भिः कैश्चिदनुष्ठानकुशलैः इतरैरनुष्ठापकैः कैश्चनोर्द्ध्वपुण्ट्रधारिभिः अन्यैश्चभस्मत्रिपुण्ट्रशोभितललाटिकैः सामयाचारिकधर्मानुष्ठानपरायणैः छात्रवर्गैरद्ध्यासिततरुमूलः कश्चनाश्रमपरिमंडला रराज ॥