सामग्री पर जाएँ

पृष्ठम्:अष्टावक्रीयम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
अष्टावक्रीयम् ।


सिसेविषयावा पुनरपि सलिलादुत्थाय सभामध्यमुपगम्य अष्टावक्रमालिंग्य जातो भवान्मेंगुळिप्रणयी मर्यादातिलंघीन्यपि वचनानि विस्मर्यतां आर्य कहोड पितुनिंदेशेन कृतं । न ममापराधो भवतो मज्जनविधौ ॥ मैथिल उक्थ्यं साम गीयते । सन्निहितश्च कालो होमविशेषस्य । तदियं सभा समाप्यतामित्युक्त्वा उत्तिष्ठति वंदिनि सर्वेषुच सभास्तारेषु राजा सविनयं क्रियासमभिहारेण एवं समागन्तव्यमिति प्रार्थ्य पर्याप्तं भूषणं धनंच प्रदाय प्रस्थापयामास तान् ॥
 तदा अष्टावक्रोपि सह पित्रा वंदित्वा यंदनीयान् समाघ्राय सवयसः समालिंग्य अनुजप्रायान् वंदिनंच विधाय तुष्टं मैथिलमापृच्छय यथागतं पन्थानमवागाहत ॥ सामाजिकाश्च वंदिप्रभृतयो विशिष्यमुनिकुमारं परिणूय यथास्वमुपजग्मुरावसथं । तौच त्वरितयागत्या औद्दालकाश्रममवापतुः । दूरादेवानयोः पितापुत्रयोरागमनंविदन्तो वटवोविद्यार्थिनः विज्ञापयमासुरौद्दालकिं श्वेतकेतुं तत्पितरं कहोळपत्नींच । उद्दालकश्च साश्रुभ्यां लोचनाभ्यामनीवोपोषिताभ्यामिव एतौ चिरेण पपौ। श्वेतकेतुरपि समालिंग्य कहोडं इयतः कालस्य कौशलं सर्वविषयेष्वपृच्छत् । अन्तिकाश्रमस्थास्सर्वेपि संभूय नवाभ्युत्थितमिव चकोरपरिषत्समाराधनचुंचुं पीयूषकिरणं अनभ्रामिव वृष्टिं राहुग्रसनविमुक्तमिव रविमण्डलं अरण्यादुपावृत्तमिव रघुनन्दनं मावित्रीसमुज्जीवितमिव सत्यवन्तं तमक्षिभ्यामापीयाति जहृषुः ॥
 एतावपि क्वचिज्जरतीभिस्सनीराजनमभिपूजितौ अपरत्र कुशलप्रश्न समुद्यतपीवरबाहुभिः प्रवृद्धैः उच्यमानाशिषौ उन्नमितकन्धरैर्वामनैश्चान्तेवासिभिरविमुक्तपार्श्वौ सन्तोषभरेण क्षीरोदमिवावनितलं प्रापयन्तौ साधुवादप्राचुर्येण मुधापूरमिवाप्लावयन्तौ अतिचिरान्तर्हितदर्शनेन सारस्वतीं रीतिमिव सन्दर्शयन्तौ आलापमाधुर्येण आनन्दोदधिमिवाविर्भावयन्तौ आकलितफलतया भगीरथप्रभावमिव प्रस्फोरयन्तौ पराजितवंदितया नारसिह्ममिव विक्रमं व्याख्यान्तौ निमग्नोद्धरणलीलया वाराहीमिव पद्धतिमनुबोधयन्तौ आश्रममाजग्मतुः ॥