सामग्री पर जाएँ

पृष्ठम्:अष्टावक्रीयम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
अष्टावकीयम् ।


णि ॥ भवतः पितृप्रमुखाश्च द्विजातयः प्राप्तसम्माननाः संप्रत्येव सलिलादुत्पतन्तस्सन्तु इति ॥ तदात्वष्टावक्रः सरोषसंभृताक्षरमवादीत् राजानं ॥

नानेन जीवता कश्चिदर्थो मे वंदिना नृप ।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ इति ॥

तदा वन्द्यपि आत्मनः वरुणपुत्रतां प्रचिकटयिषुरित्थं वदतिस्म ॥

अहं पुत्रो वरुणस्योतराज्ञः न मे भयं विद्यते मन्जितस्य ।
इममुहूर्त पितरं दृक्ष्यतेऽयं अष्टावक्रश्चिरनष्टं कहोळम् ॥ इति ॥

 राज्ञा चन्द्रद्युम्निना अष्टावक्राशय मनुरुन्धानेन वंदीमज्जनविधौ नियुक्तः अवगाह्यान्तिकसरसि ममज्ज ॥ उदतिष्ठच्च हाहाशब्द: महान् पर्यन्तस्थितिजुषां ॥
 तदानीञ्च सरिति सरसि च तरंगाणां प्रकाराः बहुधा चलाचला अदृश्यंत ॥ ततः क्षोभात् केचन जातरूपपरिष्कृतोत्तरीयपटधारिणः केचित् अभिरूपसौंदर्यशोभावितानाः विख्यातवैडूर्यमणिमालाप्रसाधितग्रैवेयकाः अपरेच दुर्वहसुवर्णभार परिपीडित शिरोभागाः खलनिप्रायाः अन्येचान्तेवासिशतसमाहृतोपदासंभाराः अनवरताध्ययनलालसाश्च बहवः पलितशिरसः प्रवेपमानगात्राः परमवृद्धा: प्रादुगमन । तेषांमध्ये पुत्रस्याष्टावक्रस्य निस्तुलं यशोवितानं विद्यासुप्रख्याप्यमानं सप्रमोदमभिनन्दयन् रवशापानूविधायिनाऽऽकारेणानुमाय अपत्यस्यान्तिकभुवं यावदाजगाम तावदेव कहोडे स्वादच्युतत्पुष्पनिकरः । सन्निहितास्सर्वेपिसहचरिताः दिष्य! प्रशशंसुरेनं कहोडे कल्याणमातिना कव्येन पुत्रेण कलितसंसर्गं । मैथिलश्च महाराजः यथोचितमुपचारेण संपूज्य कहोडं अष्टावक्रञ्चाभि त्य अपत्यस्यावश्यकतां तदीयम्महिमानञ्च बहुधावर्णयामास ॥ तदा कहोडोपिपुत्रस्य अष्टधावक्रिमणि हेतुं, स्वस्य तत्कृतमुपकारञ्च, विस्तरशो निरूप्य आत्मीयमपि वृत्तं, औद्दालकस्यानुग्रहञ्च, बहुधाप्रख्याप्य निरवधिमानन्दसागरं पुनरपि अवगाह्यान्तर्मज्जन्नेवानुबभूव सम्मोदं । वन्द्यपि मुनिकुमारसौहृदय्यसंपिपादयिषया जनकस्य निविवेदयिषया कहोडापराधपरिजिहीर्षया विद्वत्समागम-