तदाश्रमपदञ्च पलितशिरसां परिमण्डलेन श्वेतमयमिव पल्लवमयमिव पिपृच्छिषासमागतैर्वटुनिकरैः समुद्रमयमिवानन्दाश्रुपूरैः सितकिरणमयमिव प्रहसनप्रभावितानैः ज्ञानमयमिव वाङ्मयविशेषप्रवचनैः धर्ममयमिव तात्कालिकाभिवादनादिभिस्समयाचारैः शब्दमयमिव स्वागतवचनैः भावुकमयमिव आशीर्वचननिकरैः प्रमोदमयमिव प्रहृष्टजनताभिः प्रकाशते म्म ॥ इत्थमाश्रममुपागतं सपुत्रञ्च कहोडं दूरादेवावसथादवलोक्य जातहर्षापि चिरविरहजं तनिमानमंगकरैभिदधती एकवेणीभूतकैश्या झटिति समुद्गताश्रुप्रसरा असंस्कृतौष्ठपुटा परिधूसरवसना पाण्डिमपर्याप्तभूषणा मूर्तिमतीव पातिव्रत्यपरिपाटी सशरीरेव तपोविततिः साकृतिरिव साधुता सतनुरिवातनुधर्मानुष्ठितिः क्षामकपोला परिमितकथा कहोडपत्नी च अन्तरागतं अवदातावलोकनैः साधुसंभावयन्ती अनक्षरमावेदयन्ती आत्मनानुभूतानां दुःखसन्ततीनां परिपाकं, अह्वायापत्यमष्टावक्रं द्वारागतमेव बलादाकृष्य मूर्ध्नी समुपाघ्राय गण्डफलकेच चुंबन्ती बाहुभ्यां गाढं परिष्वजमाना "त्वया खलु पुत्रवती" इति साधुवादान् वदन्ती चिरमविहायापत्यमस्थात् ॥ अन्तःप्रविष्टञ्च कहोडं अनभ्यस्तश्रूविलासेन केवलं साश्रुणा लोचनेनात्मदैन्याविर्भावसूचकेनानतीव सा प्राप्तबाधस्य भर्तुवीक्षणेन दुःख्यन्ती जितकाशिपुत्रसमागमेन तुष्यन्ती वसन्तोदयमाधवीलतेव शोच्यां प्रियदर्शनाञ्च पर्यायेण दशामश्नुवाना आसीत् ॥ इत्थं समागतानां तेषां प्रवृद्धे हर्षप्राग्भारे कहोडोपि तत्कालोचितान् सल्लापान् परिसमाप्य अपत्यमष्टावक्रमाहूय इत्थमुक्तवान् ॥ "भवता गर्भगतेन शिक्षितः कोपितश्चाहमशपमंगानामष्टधावक्रिमाणं । संप्रति तु अमुप्यां समंगायास्नाहि । वपुषः कौटिल्यं वीचीकौटिल्येनापयास्यति । मा चिरय । वंदिविजयेनेव वपुम्सौभाग्येनापि विराजिष्यते इति ॥
तदनु यथापितृनियोगमाचचार स्नानमष्टावक्र: । स्नातोत्थितश्च पूर्णचन्द्र इव विधूतवक्रिमा विरराज ॥ समंगाचात्मनः अन्वर्थतामवाप्य परमां
प्रहृष्टतामवबोधयितुकामेवापांपतिं ससंभ्रममगात् ॥
पृष्ठम्:अष्टावक्रीयम्.pdf/४४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
अष्टावक्रीयम् ।