पृष्ठम्:अष्टावक्रीयम्.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । यश्चानुक्षणमादरेणाभ्यस्याभ्यस्य सरसमनुभवतां प्रतिपाद्ये ब्रह्मण्यपि प्रायेण परिहीयते परमानन्दभरमधुरिमा ॥ येनचाद्यावधि विवादवैखरी विराजते विशिष्टक्रमा । यस्मैच स्पृहयति विद्यापयोधिसमुत्थतत्वामृतास्वादलब्धशे- मुषोवैभवाः कर्कशतर्कमार्गप्रधावनजंघालपांडित्यप्रहरणावलंबिनो लब्धम- यादाश्च लब्धवर्णाः । यस्माच्च नवनवोन्मेषधिषणाविशेषशालिनो विचक्ष- णा विविधांश्च बोद्धव्यान्विनाश्रमं विदांकुर्वन्ति ॥ यस्यपक्रमश्च बलि. हननप्रसारित त्रिविक्रमपादप्रक्रम इव कुत्रचिदवाङ्मनसगोचरः परं ब्रह्मी भवति ।। यस्मिश्च अप्रतिपादिता अर्थाः अनाशंकिता आशंका अप्रतिस- हिता आक्षेपा: अनुभृताश्रुतयश्चान्यत्र न दृश्यते ॥ एतादृशे च विवादे समारब्धायां वर्णनपरिपाट्यां तस्यतस्योपन्यासे तमेवराद्धान्तमारचयन्तः म- हान्तः पांडतप्रकाण्डा अपि नालमभूवन् विशिष्य विज्ञान विनाश्रमेण सामाजिकेषु । बंदी च विख्यातः कथमम्माच्छिशोः बिभियात् ।। स एव विजेप्यते इति केचित् । अन्येत्वष्टावक्रोयन्नमानुषः आकारातिशायिनांच विद्यासंपत्तिः सर्वधानायं पराजितो भावष्यतीति । अपरंतु वदितेजोविशेष- वर्णनव्यापृताः विजयमस्यवमानरे | अभिजानन्तश्च अथगौरवण दृष्टान्त- साधुभावन अनधिकपदप्रयोग कोशलेन अभिमतार्थबोधकदर्शन सामग्री- समुपन्यसनसम्यक्तया चाष्टावक्रीयपक्षमेव विजायनं व्याचस्न्युः ।। इत्थमासधाराव्रतानुकारिण्यां विबदनसरण्यां झटिति प्रतिवदमान- योश्च तयाः * त्रयोदश्यां पारपाट्यामधमुपक्रम्य सद्रष्टान्तं सानुबन्धञ्च साधूत्तरं भाषितुमपारयन् खमूचनसमुच्छ्रित ग्रांदाभोगः निष्पन्दतराबद्ध्य- मानकलक्ष्यं पश्यन् समाधकाञ्चनिश्वाससन्ततिं नारनिष्कासयन् वदो क्षण कलां मुहृतञ्च तृष्णामवातप्ट | तदा साभिमानं साधुम्वमात्मानं अष्टावक्रः तदुपक्रान्तमर्थमन्यूनयैव वृत्तसरण्या झटिति पर्यपृश्यत् ॥ तत्रच माध्यस्थं पदमधिवसन्नन्द्राम्रिः साधु अष्टावक्र

  • इयं परिपाटो महाभारते वनपर्वणि दृष्टव्या प्रश्नोत्तरयोः । व्या-

ख्यानन्तु बहभिः कृतंदृश्यतां ।। श्लाघमान: ..