वृद्धभावस्य । श्रुणु नहि परश्शतसमादर्शिनः न वा पलितपाण्डुरमुखाः
नापि स्खलद्गतयः दण्डधारिणः नैव लंबमानकूर्च्छाः प्रह्लीभूताः नापि
शुष्यत्वचः पाण्डुरोमाणः वृद्धा भवन्ति ॥ क्व तादृशं ज्ञानैकसाध्द्यं वृद्धत्वं
क्व एतानि अतिक्षुद्रतराणि बाह्यानि चिह्नानि ॥ अबहिस्सञ्चारिणः अन्तस्थितमेवाल्पधियं वाचस्पतिं मन्यंते ॥ तारामैत्रीप्रकटनेनापि केषांचिश्वेतमाना यशोवितानसंपत्तिः ॥ न केवला विद्या पुरुषस्य यशो वित्तं सौभाग्यंच दातुमल ॥ अविदुषश्च बहुधा विस्तृणीते विततं यशः । जन्मान्तरकर्मानुविधार्यानि खलु संपद्यन्ते सुखमसुखं लाभः क्लेशः यशः संपद्वा ॥ नमेऽस्ति कश्चिद्विद्यायां प्रतिकोटिनिर्वोढा । प्रस्थितश्चाहं वन्दिविजयाय । न खल्वधीराणामिव अकालिकमुद्यमं साधु भवेत् ॥ अल्पज्ञाश्च बहुधा
विकत्थमानाः फलेभ्यो दवीयांसः पतन्ति वृथापरिश्रमाः ॥ सति च विवादे सर्वं ज्ञास्यते । मा भवानभ्यन्तरो भूत् । न हि रूपं कुलंशीलं वा विवादे विजयं वितरन्ति ॥
ततो दौवारिकश्च आकारे खर्वतां ज्ञाने विपुलतां वयसि बालिमानं वचसिप्रौढिमानं हीनतामंगेषु उत्तमतां विवादनैपुण्ये अल्पाक्षतां मुखे दीर्घदर्शितां धियि माधुर्यं मृदुभाषणे मर्मभेदितां तात्पर्यार्थे विचिन्त्य "न केवलमयम्मानुषः किन्तु वंदिपराजयाय सृष्टः विवृधमाणिः । नार्हामि मुनिकुमारमन्तर्जिगमिषुं निरोद्धुं ॥ वर्द्धतां विवादः । स्पृहयामि च महते विचाराय । अयञ्च न विरमेत् कल्पनामार्गेषु सर्वथा अनिवेद्य राजानमैन्द्रद्युनि प्रविविक्षामस्य पूरयितुञ्च नार्हामिति निश्चित्य प्रविश्याभ्यन्तरं राज्ञे यथायथं निवेदयामास ॥ तत्रभवान्मुगृहीतनामा पेन्द्रद्युभ्रिरपि तादृशमेकंविद्वांसं दिदृक्षुः प्रवेशयामासाष्टावक्रं ॥
प्रविशंश्चायं उपेत्य राजानं "भवान् किल यायजृकानां धुरि ययातिरिवाभाति । यतो विनाचांगलोपमध्वरानुष्ठानन्नामानभ्रवर्षणं । पूर्णतुन्दाः पूजिताश्च ब्राह्मणाः यथामनोरथमाकांक्षन्ति श्रेयः । श्रूयते साच महासभा
यत्र पराजितानां सलिलमज्जनमेव दण्डः । वन्दीच कश्चन विद्वन्मातंगो
पृष्ठम्:अष्टावक्रीयम्.pdf/३४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
अष्टावक्रीयम् ।