पृष्ठम्:अष्टावक्रीयम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ ॥ अष्टावक्रीयम् ॥ -- यदीय सूक्तिरस्माकं भद्रकर्मविधायिनी । शर्मणे जगतां कृष्णस्सजीयात्सूरिसेवतः ।। ॥ १ ॥ ताप्रशमननिरता मधुररसास्वादमत्तकविनिचया । सूर्याश्रिता जगत्यां जयतु सदा सा सरित्समा वाणी ॥२॥ महनीयपादसेवा दूरीकुरुते विषादमदाय । घटयति झटिति वरिष्ठं महिततमं भद्रमुन्नतिं च पराम् ॥३॥ अम्ति खलु कौबेयाँ दिशि निखिलभुवनमहोपकारवितरणपटुः सन्त- ताविर्भूतावश्यायसन्ततिसमधिगतापूर्वसानुधर्मा तरुणतरानोकहनिवहपरिक- मितप्रान्तभूमिः पवित्रतरकृष्णमृगाच्यासितशादुलप्रदेशभूषितः पटुतरनि- नदवाचालिताशानामितप्ततम्स्वैरं संचरतां अवधूयमृगराजभयं धाष्ट्येन तरुभङ्गप्रवृत्तानां महामात्यैरिव भूभृदन्तस्थितबलविशेषजिज्ञासया नियुज्य- मानैरनकैरनेकपकलभः परिकलितगोष्ठीरसानां कषायगंधसल्लकीपल्लवावर्ज- नकुतुकशुण्डादण्डाग्रभागानां वशापरिषत्समाराधनाय तानि तान्यतिगंध- भानि मृदुळतराणि मरीचमनोहररसांतराणि आरण्यकान्योषधिपल्लवानि ससंभ्रममपचिन्वतां निरस्तरमदसलिलप्रसराश्यानगण्डस्थलानां मधुरतरम- दजलामोदमदारतदिगंतरागतैः आतिथेयाश्रमेष्विव कटप्रदेशेषु नित्यवास- लुब्धैरळिकुलैः परिवृत तेनां निचयैरनुक्रियमाण वर्मप्रमाणः, क्वचिदु- वैशसमुदयसमुद्भतसमीरसस्त्रसमुच्छोषितमुमहाफलावनीरुहषण्डः क्वचिद- नवरतातिशीतळामृतवर्षणपरवलाहकसमुज्जीवित जन्तुजातः, क्वचिन्मृग- राजाभिहतदंतावळशिरस्थितमुक्ताफलनिकरपरिपूरितैकपदीकः, क्वचिन्मुनिज- नसंवध्यमानैः शिष्यत्र जसमुपानीतयाज्ञियकुशाग्रभक्षणतत्परैः आवयमान " ..