पृष्ठम्:अष्टावक्रीयम्.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्याः सचेतसः कस्य नाम नज्ञातं यहुत प्राचीनाः काळिदाम बाणभट्टप्रभृतय इव अधुनातनाः प्रायेण तथाविधां सचेतस्कतां नैव भजन्ति, नापि कुहचि- च्छन्त्या, कुत्रचित् व्यंग्यमर्यादा पुरस्कृत्य, धर्म्य पन्थानं निरभिसूयं अनु- च्छास्त्रञ्च अवनौ प्रतिष्ठापयितुं, नवा धर्मशिरसो रसान् तदनुगुणया रीत्या सचमत्कारं वर्णयितुं, नैव भाषां पोषयितुञ्च, ईशत इति । प्रायेण सेयं भाषाभिवृद्धिः गद्यमयेषु ग्रंथेषु आयतते इति ह म्म वदन्ति विमर्शरसिकाः नव्याः । सांप्रतमेवेदं । नहि छन्दोनुविधायिनी रोतिं पद्यप्रबन्धेभ्यः अवगच्छन्तः माणवकाः, संभाषणोंचितां, विनाश्रम पदार्थसंबंध प्रकाशयितुमहन्ती च रीति, जानीयुः ॥ अत एव गीर्वाण- वाणी, भाषान्तरसजातीयां विवृद्धि नैवाश्नुत इव प्रतिभाति ।। सर्वविद्या संवर्धनसमाजोऽपि संस्कृतभाषायां, विशिष्य गद्यमयषु, प्रबंधेषु प्रकामं प्रोति प्रकाशयन् नव्यानां भाषासंवधनोपायप्रकारं सूचयीय । अत एव आलेयभाषापाण्डित्येन साकं गीर्वाणवाण्या अन्यादृशी पाण्डिती भजन्तः विमर्शनेन, गद्यप्रबंधलेखनेन, दुरूहशास्त्रार्थ संग्रहणेनच, अम्मा- दृशाननुगृहन्ति कतिपय संख्यावंतः ।। अतोऽयं जनः कैश्चन सुहृत्तमैः महाशयैः “अष्टावक्रीयनामनि" आख्याने नियोजितः चिरेण यथामति विलिख्य अनुष्ठित मुहृद्वचनश्चाभूत् । कंदमाख्यानलेखनसामर्थ्य. कमेऽल्पाधिषणा ॥ सोऽयं सौहृद उत्साहः संप्रति अस्य जनस्य तत्सम्मुद्रणकमणि महान्तमुद्यममुदपीपदत् । अतः संपन्नार्थी प्रवृत्तिारयं भावुकाय कल्पतां भावुकाश्च परमया कृपया दूरीकृतालस्यया शोधनरीत्याच सावधानं अमुं ग्रन्थं पठनेन समनुगृह्य अज्ञानेन, अनवधानेन, च अमुष्य जातानपभ्रं- शान् अवबोध्य सम्याञ्च सांप्रदायिकलेखनपथे अमुंजनं अस्खलितचारिणं कुर्वन्तु इति- रसिकजन पदपंकज प्रणयी र. शेषशायी कोट्टयूर , कुंभघोणम् ,