पृष्ठम्:अष्टावक्रीयम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । मास | सोऽप्याचार्यः करुणया करतलस्थितमिव सर्व विषयं न्यरूपयत् ॥ श्वेतकेतुपुत्रस्तु अध्ययनात्पराजितः नाष्टावक्रमनुसर्तुं प्राभवत् । ईषत्प्रकारानेव अध्यगीष्टाम्रायान् । परन्त्वसूयाक्रान्तहृदयः प्रायेणान्यनि- न्दामेव कुर्वन् गमयामास कालं ॥ अष्टावक्रश्च षोडशवर्षदेशीय एव औपनिषदेष्वपि व्यवहारेषु परमं प्राज्ञभावमवाप ॥ ओषधीनाथमिव एवं सकलाः कलाः पर्यपोषयन् । विद्यासरितश्चामुं अक्षोभ्यमंबुनिधिमवगाह्या- नन्दमविंदन ॥ आचार्योंपि समग्रकलं द्विजराजममुंपश्यन् अकूपार इवाति- वेलसंतोषतरंगितान्तरंगः अवर्द्धत ॥ कहोडपत्नी तु अनवरतं आर्यपुत्रस्यागमनचिन्तयन्ती अनवाप्य तदीयमुदन्तं 'कियतः कालस्य एवमविश्रममनुभूय दुःखं प्राणास्संरक्ष्याः । अतीतेषुच द्वादशमु वर्षेषु अनधिगतप्रियवृत्तान्ता वैधव्यं कर्माहतीति श्रूयते धार्मिकं वचनं । तथापि प्रणिधानेन तत्रभवता आचार्येण भर्तुः प्रवृत्तिम्सम्यगुपलब्धा । अत एव पितृपादाः निर्बध्नन्ति जीवितव्ये । अन- तिचिरेण दुःखमुन्मूलयिष्यते इति साधुवचनेन यापिताः षोडश हायनाः ।। न मे रोचते अभर्तृकायाः क्षणमात्रीवितमपि । पुत्रस्य पाण्डित्योत्कर्षः किंचिदिवाश्वामयति । प्रत्यहं बर्द्धतेऽयं शशीव कलाविद्यासमृद्ध्या । आ- श्रमधर्मानुष्ठाने विद्याग्रहणे च व्यापृतः तपस्वी मम कुमारः श्वेतकेतुमेव पितरम्मन्यमानः पितृभाक्तं बूढां बध्नाति । एकपदे पित्र्यं वृत्तान्तमना- पृच्छमानाय निवेदनं भूयसे शोकाय भवेदिति मम प्रतिभाति ।। उत्पन्ना- शेकः कदाचित् प्रक्ष्यतीमं विषयं । आस्तां मैथिलोऽपि महाराजः सत्रक- रणोत्सुकः संप्रत्यपि यथापूर्वमनुष्ठीयमानं सत्रं न समापयति स्म ।। ततः आग- ताश्च आर्यपुत्रमनालोकमाना एव वार्तकिंचन पितृपादेभ्यो निवेदयन्ति ।। सर्वघा वैश्वानर एव मम कुशलं दास्यतीति दुःखसविनमानसा अन्तर्निरु- द्धबाप्पग्रसरा कथमपि जीवतिस्म । जातु चिद्विद्यापरीक्षणकुतूहली श्वेतकेतुरुभौ कुमारौ अन्तिकमानी य्य पप्रच्छ यान् कांश्चिद्विषयान्।। पुण्डरीकस्तु प्रत्युत्तरितुमक्षमएव अवर्तिष्ट