पृष्ठम्:अष्टावक्रीयम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । , पोम्साफल्यमवापुः । आतिथेयतृप्ताश्चाभ्यागता: साधु प्रशंसन्तः प्रतस्थि- रे । केचन संबन्धमनयोः प्रशशंसुः । अन्येतु आनुरूप्यमीडांचक्रिरे ॥ अपरेपुनः विधि विशेषतः तुष्टुवुः ।। इतरेच संभाराहरणचातुर्यमावेदयन् ॥ परेच परिषद्विशेष व्यशिषन् । एवं निवर्त्यमाने सांगेच विवाहे संबन्धिनोऽ न्येचं निर्विशेषमभ्यर्चिताः परांमुदमवापुः । कदाचित् मृष्टान्नभोजननिमंत्रणेन कंदाचित् विदग्धगोष्ठीबन्धनलौल्येन , कदाचित् छात्रपरीक्षाक्रमचातुर्येण , कदाचित् वधूवरविलासव्याख्यानेन , कदाचिदात्मनम्सफलताप्रशंसनेन , कदाचिदाश्रममृगतर्णकविहरणेन , यथावकाशमुषित्वा अधिगम्याचार्यनुज्ञा संबन्धिनः साधुशिक्षित्वा पुत्रिका स्वस्वमाश्रमं प्रपेदिरे ।। तदाप्रभृति श्वेतकेतुपल्यपिप्रत्यहं श्वशुरयोः पादाववन्दिष्ट । इष्टि- कर्मणीषदपिकल्यन्नाभजत ॥ आश्रमालेपने आहितश्रद्धा अभवत् ॥ अतिथिसत्कारेघु आदरवती रराज ॥ नीवारतण्डुलावघातेषु नारंध्रप्रेमाऽ भवत् ॥ न पथि कालमयापयत् ॥ श्वशुरयोरन्येषाञ्च एवमनुतिष्ठन्ती आ-' श्रमस्य कुटुंबस्य कुलस्य अथवासर्वेषां प्रतिव्रतागुणानां , महाशीलानाञ्च तापसीनामादमिवात्मानं दर्शयन्ती प्रधानतमा बभूव ।। श्वेतकेतुश्च तया- सहचरितधर्मा नित्यान्नैमित्तिकान् श्रौतान् म्माश्चिधर्मान् यथाविधि सम- नुतिष्ठन् तस्यां कालोप्तबीजाया वमुन्धरायामिव सम्यफलम् अचिरेणापत्त्यरत्न मेकमलभत ॥ कहोडपत्नी कल्याणीच चिरसहवास परिचितपि कहोड़े न लाघव- मभजत ।। महत्येव प्रत्यूषे आवसथिकानि निरवीवृतत् कर्माणि ।। प्रातः पूजोपकरणानि समपीपदत् ॥ स्नानविशेषेणात्मनः शौचं समचीक्लपत।। तानितानिच स्थानानि उपालीलिपत् ॥ होमधेनुसमर्हणामचीकरत् । तदनु नीवारानवजधान ।। चुल्लो कर्मणि प्रागल्भ्यं दर्शयन्ती पपाच ।। आतिथेयेषु आहितश्रद्धाऽभवत् ।। नम्म विस्मरतिगृह्याण्यावश्यकानि कर्माणि । परां मु- दमवाप भर्तृशुश्रूषायां ॥ ययाच उत्पत्यनुगुण आकारसन्निवेशः, आकानु- विधायिनी प्रज्ञा, प्रज्ञाप्रतिमाचाचारसन्ततिः, आचारानकारि शालं, शीलानु-