षोस्साफल्यमवापुः । आतिथेयतृप्ताश्चाभ्यागता: साधु प्रशंसन्तः प्रतस्थिरे ॥ केचन संबन्धमनयोः प्रशशंसुः । अन्येतु आनुरूप्यमीडांचक्रिरे ॥ अपरेपुनः विधिं विशेषतः तुष्टुवुः ॥ इतरेच संभाराहरणचातुर्यमावेदयन् ॥
परेच परिषर्द्विशेषं व्यशिंषन् । एवं निर्वर्त्यमाने सांगेच विवाहे संबन्धिनोऽन्येच निर्विशेषमभ्यर्चिताः परांमुदमवापुः । कदाचित् मृष्टान्नभोजननिमंत्रणेन कदाचित् विदग्धगोष्ठीबन्धनलौल्येन , कदाचित् छात्रपरीक्षाक्रमचातुर्येण ,
कदाचित् वधूवरविलासव्याख्यानेन , कदाचिदात्मनस्सफलताप्रशंसनेन , कदाचिदाश्रममृगतर्णकविहरणेन , यथावकाशमुषित्वा अधिगम्याचार्यनुज्ञां संबन्धिनः साधुशिक्षित्वा पुत्रिकां स्वस्वमाश्रमं प्रपेदिरे ॥
तदाप्रभृति श्वेतकेतुपत्न्यपिप्रत्यहं श्वशुरयोः पादाववन्दिष्ट । इष्टिकर्मणीषदपिवैकल्यन्नाभजत ॥ आश्रमालेपने आहितश्रद्धा अभवत् ॥ अतिथिसत्कारेषु आदरवती रराज ॥ नीवारतण्डुलावघातेषु नीरंध्रप्रेमाऽभवत् ॥ न पथि कालमयापयत् ॥ श्वशुरयोरन्येषाञ्च एवमनुतिष्ठन्ती आश्रमस्य कुटुंबस्य कुलस्य अथवासर्वेषां प्रतिव्रतागुणानां , महाशीलानाञ्च तापसीनामादर्शमिवात्मानं दर्शयन्ती प्रधानतमा बभूव ॥ श्वेतकेतुश्च तयासहचरितधर्मा नित्यान्नैमित्तिकान् श्रौतान् म्मार्तांश्चधर्मान् यथाविधि समनुतिष्ठन् तस्यां कालोप्तबीजाया वमुन्धरायामिव सस्यफलम् अचिरेणापत्त्यरत्नमेकमलभत ॥
कहोडपत्नी कल्याणीच चिरसहवासपरिचितपि कहोड़े न लाघवमभजत ॥ महत्येव प्रत्यूषे आवसथिकानि निरवीवृतत् कर्माणि ॥ प्रातः पूजोपकरणानि समपीपदत् ॥ स्नानविशेषेणात्मनः शौचं समचीक्लृपत् ॥ तानितानिच स्थानानि उपालीलिपत् ॥ होमधेनुसमर्हणामचीकरत् । तदनु नीवारानवजधान ॥ चुल्लीकर्मणि प्रागल्भ्यं दर्शयन्ती पपाच ॥ आतिथेयेषु आहितश्रद्धाऽभवत् ॥ नस्म विस्मरतिगृह्याण्यावश्यकानि कर्माणि ॥ परां मुदमवाप भर्तृशुश्रूषायां ॥ ययाच उत्पत्यनुगुण आकारसन्निवेशः, आकानुविधायिनी प्रज्ञा, प्रज्ञाप्रतिमाचाचारसन्ततिः, आचारानुकारि शीलं, शीलानु-
पृष्ठम्:अष्टावक्रीयम्.pdf/२२
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
अष्टावक्रीयम् ।