शुभंयौ मुहूर्ते त्वरयामास वधूव वेदिमुपागन्तुं । तदानीं प्रभातप्रभृति अलंकरणाय प्रवृत्ताःवृद्धाः अभिज्ञयुवतयश्च प्रथमतश्शिखामार्जितायाः अभिनवैराहितशोभैश्च ताळीपत्रैः ताटंकशाभां, वेणीकरणेन कौशिकीं भूषां, कुंकुमचन्दनैश्च ललालाटिकं परिकर्म,अलक्तकरसेन पादप्रसाधनं,शलाकाञ्जनेन विशाललोचनपरिष्कारं, पाण्डुरशंखेन बाहालंकारं, क्षुद्रशंखिकाभिरूर्मिकाविधिं, विचित्रतरविन्यासविख्यातहेमसूत्रिकया कण्ठभूषणं, कुरवकमालतीकुसुमैर्मालिकारचनाञ्च, विधाय अहते मङ्गल्येच वाससी परिधाप्य, सामयिकांश्च , धर्मानवबोध्य वेदिं स यः कुमारिकाद्वयं तत्तदीयाः यापयामासुः ॥ उभौच कुमारौ यथोचित्तमलंकृत्यातिपतनं कालस्यासहमानः पुरोधाः प्रवेशयामास तत्र प्रदेशे । आगतास्संबन्धिनः पण्डिताः अन्ये च यथायथमासनं भेजिरे । तत्र द्वयोरपि जायापत्योः परस्परं प्रच्छन्नप्रसरा आहितकूणीभावमाधुर्या स्वच्छन्दावकाशालाभेन चिराय स्रंमिळन्ती पुरस्थितजरठजनसमासादितभीतिः मन्दाक्षमन्दिततारका श्वेतत्रिभागावशेषितकनीनिकाविन्यासचतुरा प्रेमप्रकर्षव्याख्यात्री रसाद्रा दृष्टिः सरोजे इव मधुकरी सौत्सुक्यं पपात ॥ तदनुच पुरोधःप्रदर्शितेन विधिना प्रणम्य तौद्वावपि जायापती उपाक्रमेतां वैवाहिकविधिं विधातुं । तत्रच श्वेतकेतुमश्मरथो मनीषी सगोत्रप्रवरं आत्रिपूरुषमाहूय स्वामपि कन्यकां तथानिवेद्य उदकधारया सह संपूज्य वराय ददौ ॥ तदैव उद्दालकाचार्योपि सपत्नीकः कहोडमामन्त्र्य कल्याणीं सहधर्मचारिणीं निवेद्य कहोडपाणिना अस्याः पाणिं ग्राहयामास । द्विजातिवरिष्ठाश्चाशिषस्समभ्यधिकाः प्रयुञ्जानाः आर्द्राक्षतानधिशिरः आरोपयामामुः वृद्धाः ॥ मुनिकन्यकाश्च सहर्षं गाथाः मुक्तकण्ठं कलञ्चजगुः ॥ तदानींवरणस्रजाविभूषितौ द्वावपि वधूवरौ सप्तपदीं परिक्रम्य लाजैर्जुहुवतुः । इर्त्थन्निर्वर्त्यमाने विवाहे उभे अपि कुमारिके आत्मनोः कृतकृत्यतां वीक्षणविशेषेणाभिव्यञ्जयन्त्यौ महानिधिलाभे इव परांतुष्टिमाविश्चक्रतुः ॥ संबन्धिनः सहर्षा अभवन् ॥ ब्राह्मणाश्चसमतृप्यन् । जरत्यश्चानुरूपवधूवरदर्शनेन चक्षु-
पृष्ठम्:अष्टावक्रीयम्.pdf/२१
दिखावट