इत्थं सुमङ्गाया दक्षिणोत्तरतीरं सर्वमपि ऋषिकुटुंबकेन च्छात्रवर्गेण चाधिष्ठितं विरेजे ॥ व्यतीते च शिशिरऋतौ वसन्तसमयोऽपि कहोडमनुकुर्वन्नुदियाय ॥ तथाहि तीव्राणि दुश्चराणि ब्रह्मचर्यव्रतानीव जीर्णान्यमधुराणि पर्णानि समापयति ॥ मौंसलस्नानेन संभृतशरीरमलानीव शिशिरकालोपचितानि अवश्यायपिण्डातकानि दूरीचकार ॥ मूर्धाधृतानीवेन्धनानि अवरोप्य हर्षमिव पल्लवांकुरान् परिपोषयति ॥ विधूयाज्ञानान्धकारं प्रहर्षयति स्म पांडित्यफलोद्गमप्रदर्शनपरिपाट्या ॥ श्रुतीरिव मायूरीः केकाः प्रगुणयति ॥ केशश्मश्रुनखानीव याप्यानि तमालपर्णपलाशमुकुळानि परित्यजति ॥ अच्छतरज्ञानमिवामृतदीधितिमाविष्करोति । अनवरताध्ययनमिव सदागतिं सृजति । परतन्त्रतामिव कुटजसन्ततिं क्षिणोति ॥ स्वातन्त्र्यमिव दर्शितफलां चूतवाटीमंकूरयति || विद्याव्रतसंगमिव नवमालिकासहकारसंपर्कं सरमाविष्कुरुते ॥ यस्य खलु कहोडस्येवानतिचिरेण माधवीशोभा परमरमणीया भविष्यति ॥
तादृक्षेच सममये पुष्प्यत्पलाशे संलपच्छारिके कूजत्पिकयुवतौ मिळन्मिलिन्दसंरावे वेल्लत्सदागतौ अंकुरत्पल्लवे वसन्ते चैत्रे मासि पूर्वंस्मिश्र्वपक्षे सुभगंभावुकतारागुणोपेते दिवसेचैकस्मिन् श्वेतकेतुं पुरस्कृत्य उद्दालकादयः उदित्वरहर्षाः प्रतस्थिरे कन्यावरणाय प्रगुणगुणाभिः कर्णजाहलंबमानताळीपत्रताटंकाभिः कुंकुमच्छुरितललाटपट्टिकाभिः जातीकुसुममालासमुल्लसितकेशपाशाभिः करधृतफलभस्त्रिकाभिः उलूलुध्वनिभूषितमुखीभिः प्रमदाभिः सह समङ्गोत्तरतीरं ॥ तत्रचोत्तरतीरे परिष्कृतायां पर्णशालायां परितः संस्तीर्यमाणेषु वेत्रासनेषु उपवेश्य समागतानुद्दालकादीन् अनतिक्रम्य समुदाचारं प्रख्याप्य वाग्दाननिश्चयं इतस्तृतीयेदिवसे तत्रैव वयं समागत्य अनतिलंघ्य भवदाज्ञां निर्वर्तयामो दारकियांपुरेति सभायामुत्थाय वदन् अश्मरथः साधु तेषां सम्माननामकल्पयत् ॥ तत्रैव तां रजनीमतिवाह्य श्वःप्रभाते कृतप्राभातिककर्माणः आचार्यप्रभृतयः तस्मिन्नेबन्धुसमाजे कहोडाय कन्यका मदीया दातव्या तम्मिन्नेव मुहूर्ते इति निश्चित्य
-.
पृष्ठम्:अष्टावक्रीयम्.pdf/१९
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति