धृतदीक्षाञ्च मां दीदृक्षमाणा वृद्धास्सुमंगलीराराधयिष्यति उचिताभ्यर्हणपरिपाट्या । कदा खलु आलवालमंबुभि रापूर्य संक्षिप्य च सायन्नीवारबलिं प्रतिष्ठाप्य बहिर्वेदिकायां दीपिकाः श्वशुरयोरन्येषाञ्च वृद्धानां पादवन्दनमाचरिष्यति ॥ न केवलमियती स्नुषागता चिन्ता ॥ इत्थमेव कन्यकापि कस्मैचन दत्ता कदा मामानन्दयिष्यतीति परमो मे हृदयतर्षः ॥ यञ्चास्या अधुनातिवदन्त्या जल्पितं तदपि क्षम्यतां । सत्यं हि नाम तत् यदुत्तानबुद्धयः प्रमदा इति ॥
एवं वदन्तीं सुशीलामेनामादरेणाभिवीक्षमाणः आचार्य आह स्म । संप्रति सांप्रतमेवाभिहितं ॥ विपथवर्तिनीनां खलु प्रमदानां प्रमाद्यन्ति वाचः विपरीतार्थपरिकल्पनेन ॥ श्वेतकेतुश्च विद्याव्रताभ्यां स्नात इति निर्वृतं मे हृदयं ॥ नहीदमपुण्यभाजां सुलभं । अभिजाता कापि कन्यका अनतिचिरेण पाणिग्राह्या भविष्यतीति न मे तस्मिन्विषये तावानुद्वेगः ॥ यावांश्च कुमारिकोद्वाहे ॥ कन्यकाजनश्च निक्षेप इव रक्षणमेव केवलमर्हति ॥ यावता गुणवते न दीयते तावत्येव पतति पिता दुःखपाथोधौ ॥ ऋषयश्च बालिम्न्येव कन्यकानां उद्वाहकलनां श्लाघन्ते ॥ सत्यन्नामेदं ॥ उचितेचावसरे अप्रतिपादितोऽर्थनिक्षेप इव खेदाय केवलं संपद्यते खलु प्रौढीभवन्ती कन्यका ॥ यच्चास्या बाल्यवयोनिष्क्रमणं तदेव जनयितृणां जनपदनिष्कासनं ॥ यच्चास्या मध्द्यकार्श्यं तदेव वंश्ययशसः प्रच्यावनं । यश्चांगानां प्रथिमा तदेव बन्धुसमाजद्वारस्य पिधानं ॥ सरितं प्रावृडिव पयोधरोन्नमनकाले सान्वयं पातयति उद्वेगावर्तकलिले परीवादपयानिधौ ॥ न केवलमिदं ॥ गुणवाननुरूपश्च जामाता जगति दुर्लभ एव ॥ न खलु स्वयंवरश्शस्यते ब्राह्मणानां ॥ येन दृष्टमहिमा कश्चनावेक्ष्येत पतिः ॥ नः कुमारिकाचार्हति गुण्यं युवानं धीमन्तंपतिं नेदमुचितं । यद्यस्मैकस्मै च
न दीयतामिति ॥ बहवः खलुच्छात्राः शिक्षितविद्याः कृतोद्वाहाश्चाभवन् । संप्रति प्रथमाश्रमिणां समाजोनातीव वर्तते ॥ कन्यकानामुदर्कशुभदर्शिन्यः प्रायेण जनयित्र्यः ॥ कुमारिकास्वायतंते मातॄणां प्राणाः । भद्रमुखि श्रूयतां
पृष्ठम्:अष्टावक्रीयम्.pdf/१५
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१३
अष्टावक्रीयम् ।