पृष्ठम्:अष्टावक्रीयम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टावक्रीयम् । धृतदीक्षाश्च मां दीदृक्षमाणा वृद्धास्सुमंगलीराराधयिष्यति उचिताभ्यहण- परिपाट्या । कदा खलु आलवालमंबुभि रापूर्य संक्षिप्य च सायन्नीवारब- लिं प्रतिष्ठाप्य बहिर्वेदिकायां दीपिकाः श्वशुरयोरन्येषाम वृद्धानां पादव- न्दनमाचरिष्यति ।। न केवलमियती सुषागता चिन्ता ॥ इत्थमेव कन्य- कापि कस्मैचन दत्ता कदा मामानन्दयिष्यतीति परमो मे हृदयतर्षः ॥ यच्चास्या अधुनातिवदन्त्या जल्पितं तदपि क्षम्यतां । सत्यं हि नाम तत् यदुत्तानबुद्धयः प्रमदा इति । एवं वदन्ती सुशीलामेनामादरेणाभिवीक्षमाणः आचार्य आह स्म । संप्रति सांप्रतमेवाभिहितं ।। विपथवर्तिनीनां खलु प्रमदानां प्रमाद्यन्ति वाचः विपरीतार्थपरिकल्पनेन ॥ श्वेतकेतुश्च विद्यावताभ्यां सात इति निवृतं मे हृदयं || नहींदमपुण्यभाजां सुलभं } अभिजाता कापि कन्यका अनतिचिरेण पाणिग्राह्या भविष्यतीति न मे तस्मिन्विषये तावानुद्वेगः ।। "यावांश्च कुमारिकोद्वाहे ॥ कन्यकाजनश्च निक्षेप इव रक्षणमेव केवल- महति ॥ यावता गुणवते न दीयते तावत्येव पतति पिता दुःखपाथोधौ ॥ ऋषयश्च बालिम्न्येव कन्यकानां उद्वाहकलनां श्लाघन्ते || सत्यन्नामेदं ।। उचितेचावसरे अप्रतिपादितोऽर्थनिक्षेप इब खेदाय केवलं संपद्यते खलु प्रौ- ढीभवन्ती कन्यका ॥ यच्चास्या बाल्यवयोनिष्क्रमणं तदेव जनयितृणां जनपदनिष्कासनं ॥ यच्चास्या मध्यकार्य तदेव बंश्ययशसः प्रच्यावनं । यश्चांगानां प्रथिमा तदेव बन्धुसमाजद्वारस्य पिधानं ॥ सरितं प्रावृडिव पयोधरोन्नमनकाले सान्वयं पातयति उद्वेगावर्तकलिले परीवादपयानिधौ । न केवलमिदं ॥ गुणवाननुरूपश्च जामाता जगति दुर्लभ एव ॥ न खलु स्वयंवरश्शस्यते ब्राह्मणानां ॥ येन दृटमहिमा कश्चनावेक्ष्येत पतिः ॥ नः कुमारिकाचार्हति गुण्यं युवानं धीमन्तंपति नेदमुचितं । यद्यस्मैकस्मै च न दीयतामिति ॥ बहवः खलुच्छात्राः शिक्षितविद्याः कृतोद्वाहाश्चाभवन् । संप्रति प्रथमाश्रमिणां समाजोनातीव वर्तते ।। कन्यकानामुदकशुभदर्शिन्यः प्रायेण जनयित्र्यः ॥ कुमारिकास्वायतंते मातृणां प्राणाः । भद्रमुखि श्रूयतां