पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । (३) ण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूर: गेहेगूर: गेहेनर्दो गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेहप्त: गेहेधृष्टः गर्भेतृप्तः आखनि- कबकः गोष्ठेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटि- रिटिरा कर्णेचुरुचुरा । आकृतिगणोऽयम् ॥ इति पात्रेसमितादयः ॥ ३॥ ७३ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २ । १ । ५६ ॥ व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव ॥ इति व्याघ्रादयः ॥ आकृतिगणोऽयम् । तेन मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्रः इत्यादि ॥ ४ ॥ ७३ श्रेण्यादयः कृतादिभिः २ । १ । ५९ ॥ १ श्रेणि एक पूग मुकुन्द राशि निचय विषय निधन पर इन्द्र देव मुण्ड भूत श्रमण बदान्य अध्यापक अभिरूपक ब्राह्मण क्षत्रिय [ विशिष्ट ] पटु पण्डित कुशल चपल निपुण कृपण ॥ इत्येते श्रेण्यादयः ॥ ५ ॥ २ कृत मित मत भूत उक्त [ युक्त ] समाज्ञात समानात समाख्यात संभावित [ संसेवित ] अवधारित अवकल्पित निराकृत उपकृत उपाकृत [ दृष्ट कलित दलित उदाहृत विश्रुत उदित ] | आकृतिगणोऽयम् ॥ इति कृतादिः ॥ ६ ॥ ७४* शाकपार्थिवादीनामुपसंख्यानम् * २ | १ | ६० ॥ शाकपार्थिव कुतपसौश्रुत अजातौल्बलि । आकृतिगणोऽयम् । कृतापकृत भुक्तविभुक्त पीतवि- पीत गतप्रत्यागत यातानुयात कयाकयिका पुटापुटिका फलाफलिका मानोन्मानिका ॥ इति शाकपार्थिवादिः ॥ ७ ॥ ७५ कुमारः श्रमणादिभिः | २ | १ | ७० ॥ श्रमणा प्रव्रजिता कुलटा गर्भि- णी तापसी दासी बन्धकी अध्यापक अभिरूपक पण्डित पटु मृदु कुशल चपल निपुण ॥ इति श्रमणादयः ॥ ८ ॥ ७५ मयूरव्यंसकादयश्च | २ | १ | ७२ ॥ मयूरव्यंसक छात्रव्यंसक कम्बोज मुण्ड यवनमुण्ड । छन्दसि । हस्तेगृह्य ( हस्तगृह्य ) पादेगृह्य ( पादगृह्य ) लागूलेगृ ( लागूलगृह्य) पुनर्दाय | एहीडादयोऽन्यपदार्थे । एहीडम् एहियवम् एहिवाणिजा किया। अपेहिवाणिजा मेहिवाणिजा एहिस्वागता अपेहिस्वागता एहिद्वितीया अपेहिद्वितीया । प्रेहिद्वितीया एहिकटा अपेहिकटा मेहिकटा आहरकरटा मेहिकर्दमा प्रोहकर्दमा विधम चूडा उद्धमचूडा ( उद्धरचूडा ) आहरचेला आहरवसना ( आहरसेना ) आहरवनिता (आहरवितना ) कुन्त विचक्षणा उद्धरोत्सृजा उद्धरावसृजा उद्धमविधमा उत्पचनिपचा उत्पतनिपता उच्चावचम् उच्चनीचम् आचोपचम् आचपराचम् [ नखमचम् ] निश्चमचम् अकिंचन स्नात्वाकालक पीत्वास्थिरक भुक्त्वासुहित मोष्यपापीयान् उत्पत्यपाकला निप- त्यरोहिणी निषण्णश्यामा अपेहिमघसा एहिविघसा इहपञ्चमी इहद्वितीया । जहि-