पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिभाषापाठः । वलीयांसः ॥ अनिर्दिष्टार्था: प्रत्ययाः स्वार्थे ॥ योगविभागादिष्टसिद्धिः || पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते ॥ ज्ञापकसिद्धं न सर्वत्र ॥ पूर्वंत्रासिद्धीयमदित्वे ॥ एकं- स्या आकृतेश्ररितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ संप्रसारणं तदा श्रयं च कार्ये वळवत् ॥ कचिद्विकृतिः प्रकृतिं गृह्णाति ॥ औपदेशिकमायोगिकयोरौपढ़े- शिकस्यैव ग्रहणम् ॥ श्तिपा शपाऽनुबन्धेन निर्दिष्ट यद्गणेन च ॥ यत्रैकाल्यहणं चैव यश्चैतानि न यङ्छुकि ॥ पदगौरवाद्योगविभागो गरीयान् || अर्धमात्रालाघवेन पुत्रो त्सवं मन्यन्ते वैयाकरणाः ॥ इति परिभाषापाठः समाप्तः ॥ शुभं भूयात् ||