पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ।. अथ - परिभाषापाठः । व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादुलक्षणम् ॥ १ ॥ यथोद्देशं संज्ञापरिभाषम् ॥ कार्यकालं संज्ञापरिभाषम् ॥ अनेकान्ता ( एकान्ताः ) अनुबन्धाः ॥ नानुवन्धकृतमने- काल्त्वम् || नानुबन्धकृतमनेजन्तत्वम् ॥ नानुबन्धकृतमसारूप्यम् ॥ उभयगतिरिह भवति ॥ कार्यमनुभवन् हि कार्यों निमित्ततया नाश्रीयते ॥ यदागमास्तगणीभूता- स्तग्रहणेन ·गृह्यन्ते ॥ निर्दिंश्यमानस्यादेशा भवन्ति ॥ यत्रानेकविधमान्तयं तत्र स्थानत आन्तयै बलीयः ॥ अर्थवग्रहणे नानर्थकस्य ग्रहणम् ॥ गौणमुख्ययोर्मुख्य कार्यसंमत्ययः ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ एक योगनिर्दिष्टानां सह वा मवृत्तिस्सह वा निवृत्तिः ॥ एकयोगनिर्दिष्टानां क्वचिदेकदे- शोऽप्यनुवर्तते ॥ भाव्यमानेन सवर्णानां ग्रहणं न ॥ भाव्यमानोऽप्युकारस्सवर्णान्ः गृह्णाति ॥ वर्णाश्रये नास्तिं प्रत्ययलक्षणम् | उणादयोऽव्युत्पन्नानि मातिपदिकानि ॥ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ॥ प्रत्ययग्रहणे चापञ्चम्याः ॥ उत्तरपदाधिकारे प्रत्ययग्रहणे न तद्न्तग्रहणम् ॥ स्त्रीप्रत्यये चानुपसर्जने न ॥ संज्ञा- विधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥ कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य || व्यपदेशिवदेकस्मिन् निमित्तसद्भावात् ॥ ग्रहण_ वता मातिपदिकेन तदन्तविधिर्नास्ति || व्यपदेशिवद्भावोऽमातिपदिके न ॥ यस्मिन्वि धिस्तदादावल्ग्रहणे ॥ सर्वो द्वन्दो विभाषैकवद्भवति ॥ सर्वे विधयश्छन्दसि विकल्प्य- न्ते ॥ प्रकृतिबदनुकरणं भवति ॥ एकदेशविकृतमनन्यवत् ॥ पूर्वपरनित्यान्तरङ्गापवा- दानामुत्तरोत्तरं बलीयः ॥ पुनःप्रसङ्गविज्ञानात्सिद्धम् || सकृद्गतौ विप्रतिषेधे यदा- घितं तदाधितमेव || विकरणेभ्यो नियमो वलीयान् || परान्नित्यं वलवत् || शब्दान्तर- स्य प्रानुवन्विधिरनित्यो भवति ॥ शब्दान्तरात्मानुवतः शब्दान्तरे मानुवतश्चानित्यत्वम् ॥ लक्षणान्तरेण प्राप्नुवन्विधिरनित्यः ॥ क्वचित्कृताकृतमसङ्गमात्रेणापि नित्यता ॥ यस्य म्च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यंनित्यम् || स्वरभिन्नस्य च माप्नुवन्विधिरनित्यः || असिद्धं बहिरङ्ग- मन्तरङ्गे ॥ नाजानन्तर्ये वहिष्मतिः ॥ अन्तरङ्गानपि विधीन् बहिरङ्गो लुगू बाधते ॥ पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ अन्तरङ्गानापे विधीन् बहिरङ्गो ल्यपू वाघते ॥ वार्णादांग बलीयो भवति ॥ अकृतव्यूहाः पाणिनीयाः॥अन्त- रङ्गादपवादो बलीयान् ॥ येन नामाप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥