पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षा | तोपराधात् ॥ ५२ ॥ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् । अक्षताशस्त्ररूपेण वज्रं पतति मस्तके ॥ ५३॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसाम- भिर्दग्धो वियोनिमंधिगच्छति ॥ ५४॥ हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् । ऋग्यजुः- सामभिः पूतो ब्रह्मलोके महीयते ॥ ५५॥१०॥ शंकरः शांकरीं मादाद्दाक्षीपुत्राय धीमते । वाङ्मयेभ्य: समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६ ॥ येनाक्षरसमानायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं मोक्तं तस्मै पाणिनये नमः ॥ ५७ ॥ येन धौता गिरः पुंसां 'विमलैः शब्दबारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८ ॥ अज्ञानान्ध- स्य लोकस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९ ॥ त्रिनयनमभिमुखनिःसृतामिमांय इह पठेत्प्रयता सदा द्विजः । स भवति धनधान्यपशु- 'पुत्रकीर्तिमानतुलं च सुखं समभुते दिवीतिदिवीति ॥६०॥ ११ ॥ अथ शिक्षामात्मोदा- तथ्व हकारं स्वराणां यथागीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश || इति शिक्षा॥