पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षा | .. रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ||२६ ॥ रङ्गवर्ण मयुञ्जीरो यसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ||२७|| हृदयें चैकमात्रस्तुअर्धमात्रस्तु मूर्धनि। नासिकायां तथार्धं च रद्ङ्गस्यैवं द्विमात्रता ||२८ || हृदयादुत्करे तिष्ठन्कांस्येन स्वमनु स्वरन् । मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥ २९ ॥ मध्ये तु कम्पयेत्कम्प - मुभौ पार्श्वों समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३० ॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णमयोगेण ब्रह्मलोके महीयते ॥ ३१॥६॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यम॒क्ष॑र॒व्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थ च षडेते पाठका गुणाः ॥ ३३९॥ प्रङ्कितं भीतमुघुटमव्यक्तमनुनासिकम् । काकस्वरं रसि गतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । 'निप्पीडितं ग्रस्तपदाक्षरं च वन्न दीनं न तु सानुनास्यम् ॥ ३५ ॥ प्रातः पठेन्नित्य- मुरःस्थितेन स्वरेण शार्दूळरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्नि- भेन ॥ ३६॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसा- न्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७॥ अचोऽस्पृष्टा यणस्त्वीपन्ने मस्पृष्टाः शरः स्मृताः । शेषाः स्पृष्टा हलः मोक्ता निवोधांनुमदानतः ॥ ३८॥ यमोऽनुनासिकान ह्वो नादिनो ह झषः स्मृताः। ईषन्नादा यणो जश्व श्वासिनस्तु खफादयः ॥ ३९॥ ईष- च्छुासांश्चरो विद्याद्गोर्षामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि॥४०॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१ ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साद्गमर्थ त्येव ब्रह्म- लोके महीयते ॥ ४२ ॥ ८ ॥ उदात्तमाख्याति वृतोऽनां मदेशिनीमूल निविष्टमूर्धा। उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥ ४३ ॥ उदात्तं प्रदेशिनीं विद्या- त्प्रचयं मध्यतोऽङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ||४४ || अन्तो- दात्तमायुदात्तमुदात्तमनुदात्तं नीचस्वरितम् | मध्योदात्तं स्वरितं ह्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥४५॥ अङ्घ्रिः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्रावृहस्पती । अग्नि- रित्यन्तोदात्तं सोम इत्यायुदात्तं मेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥ ४६ ॥ हविषां मध्योदात्तं स प्रति स्वरितम् । वृहस्पतिरिति द्वयुदात्तमिन्द्रावृहस्पती इति त्र्यु- दात्तम् ॥४७ ॥ अनुदात्तो हृदि ज्ञेयो मूर्युदात्त उदाहृतः। स्वरितः कर्णमूलीयः सर्वास्ये. मचयः स्मृतः ॥ ४८ ॥ ९ ॥ चाषस्तु वदते मात्रां द्विमात्रं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥ ४९ ॥ कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्विषात् ॥ ५० ॥ सुतीर्थांदागतं व्यक्तं स्वाम्नाय्यं सुर्व्यवस्थितम् । सुस्वरेण सुबके मयुक्तं ब्रह्म राजते ॥ ५१ ॥ मन्त्रो हीनः स्वरतो वर्षातो वा मिथ्यामयुक्तो नरममाहू | सवाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वर- /