पृष्ठम्:अष्टाध्यायी (शिक्षापरिभाषादिसहिता).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः । अथ शिक्षा | अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्व्यं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ १ ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि बाच उच्चारणे विधिम् ॥ २ ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ ३ ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥४॥ अनुस्वारो विसर्गचपिपराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारःद्भुत एव च ॥ ५ ॥ १ ॥ आत्मा बुद्धया स्मेत्य़ार्थान्मनो युद्धे विवक्षया । मनः कायाग्निमाहन्ति स मेरयति मारुतम् ॥ ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । मातः सवनयोगं तं छन्दोगायत्रमाश्रितम् ॥ ७ ॥ कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तौयसवनं शीर्षण्यं जागतानुगम् ॥ ८ ॥ सोदीर्णो मूर्ध्यभिहतो बक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । ॥ ९ ॥ स्वरतः कालतः स्थानात्मयत्नानुप्रदानतः । इति वर्णविदः माहुर्निपुर्ण तन्निवो- घत ॥ १० ॥ २ ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः लत इति काळतो नियमा अचि ॥ ११ ॥ उदात्ते निषाद्गान्धारावनुदात्तं ऋषभधैवतौ । स्वरित- प्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२॥ अष्टौ स्थानांनि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥ ओभावश्च विवृत्तिश्च शपसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोप्मणः ॥ १४ ॥ यद्योभावमसंधानमुकारादि. परं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्वयक्तमूष्मणः ॥ १५ ॥ ३ ॥ हकारं पञ्चमै- र्युक्तमन्तस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाद्दुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्ताळव्या ओष्ठनाबुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या तुलसाः स्मृताः ॥ १७ ॥ जिह्वामूळे तु कुः मोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ऐऐ तु कण्ठताळव्या- वोऔौ कण्ठोष्ठजौ स्मृतौ ॥१८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओका- रौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ २० ॥ ४॥ स्वराणामूष्मणां चैव वित्रृतं करणं स्मृतम् । तेभ्यो॒ोऽपि विवृतावेङौ ताभ्यामैची तथैव च ॥ २१ ॥ अनुस्वार- यमानां च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अलाबुबीणानिर्घोषो दन्त्यमूल्यस्वराननु । अनुस्वारस्तु कर्तव्यो॒ नियं, न्ोः शषसेषु चु ॥ २३ ॥ अनुस्वारे विवृत्यां तु वि॒िरामे चाक्षरदये । द्विरोष्ठ्यौ तु विगृहीयाद्यत्रकार- वकारयोः ॥ २४ ॥ व्याघ्री 'यथा हरेत्पुनान्दष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वदर्णान्प्रयोजयेत् ॥ २५ ॥ ५ ॥ यथा सौराष्ट्रात इत्यभिभाषते । एवं