पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ अलङ्कारसङ्ग्रहः

" अहो सत्यमहो धैर्यमहो दानमहो क्षमा । अहो शीलमहो पुण्यं हरिश्चन्द्रस्य भूपतेः ॥ " अहोपदानामन्नेक्तिर्बहुधा विस्मये गुणः । “सोऽयं मन्मथसर्वस्वं मन्मनोगृहदेवता । लावण्याम्भोधिलहरी दृश्यतां दृश्यतां सखे ॥ " हृष्टस्य वाक्यफणितौ द्विरुक्तिरिह भूषणम् ॥ ८८ ॥ " अस्तु नीरक्षसा पृथ्वी निःशल्यास्तु जगत्रयी । तिष्ट तिष्ट क्षणं संख्ये हृन्मि त्वां दशकन्धर ॥ " कृद्धस्य वचनेऽप्यत्र द्विरुक्तिर्नैव दुष्यित । " देहि देहीति वदते देही देहीति यो वदेत् ‘देही देहान्तरं प्राप्य पुनर्देहीति नो वदेत् ॥ " दैन्येऽपि तद्वदेवात्र पुनरुक्तिर्न दूषणम् ॥ ८९ ॥ “धन्विनां मृगवनेषु' गच्छता रूपकोटिकथनेऽधिका क्षतिः । खिद्यते विमधिकं प्रयोजना- देकदानरवधः कृतः कृतः ॥ " अत्रावधारणे तद्वत्पुनरुक्तिर्न दूषणम् । " प्रसीद कोपमुन्मुञ्च प्रसीद कलभाषिणि । तव तन्वि पदोपान्ते लुठयसमयं प्रियः ॥ " उक्तस्यैवात्र कथनं गुण एव प्रसादने ॥ ९० ॥ " हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा । हन्यते चारु सर्वाङ्गी हन्यते मञ्जभाषिणी ॥" 1. वदतो. 2. देहेि. 3. देहैिं. 4. पदेषु. 5. रूपकोपि. 6. अथोवधारणे.