पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टः परिच्छेदः ७१ विलसत्करेणुगहनं सम्प्रति समावयोः सदनम् ॥ " सन्दिग्धमप्यत्रादुष्टं वक्त्तबोद्धव्यभेदतः ॥ ८४ ॥ " ग्रहैस्ततः पञ्चभिरुञ्चसंस्थितै- रसूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ " अप्रतीतमपि ज्योतिःप्रसङ्गेऽत्र न दुष्यति । " म्रियतां म्रियतां तन्वि किं वा जीविकयानया । जीवितं सखि मानाय नैव चेज्जीवितेन किम् ॥" अस्मिन्विषण्णवचने पौनरुक्यं गुणो मतः ॥ ८५ ॥ “ गाढलिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा सान्द्रस्त्रेहरसातिरेकविगळत्काञ्चीनितम्बाम्बरा' । मा मा मानद मातिमामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ मामेत्यादि न्यूनपदं पारवश्ये न दूषणम् । “यद्वञ्चनाहितमतिर्बचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु कर्तु वृथा प्रणयमस्य न पास्यन्ति ॥ " गुणोऽन्ययोगव्यावृत्यै विदन्तीत्यधिकं पदम् ॥ ८६ ॥ विषादे विस्मये हर्षे कोपे दैन्येऽवधारणे । 'प्रसादनेऽनुकम्पायां द्विस्त्रिरुक्तं न दुप्यति ॥ ८७ ॥ 1. विसरत्करेणु. २. नाम नाथः स्यात्. ३. श्रीमभितम्चाम्भरा. 4. प्रसाधने.