पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

पितृनतार्प्सीत्समर्मस्त बन्धून् । व्यजेष्ट षडर्गमरंस्त नीतौ समूलघातं न्यवधीदरींक्ष्च ॥ " उदाहरणकाव्यत्वान्न दुष्टं श्रुतिकटपि ॥ ७९ ॥ प्रहेळिकाद्यर्थिबन्धैकाक्षरद्यक्षरादिषु । क्लिष्टासमर्थनेयार्था वाचकाद्या न दूषकाः ॥ ८० ॥ " देवराजो मया दृष्टो वारिवारणमस्तके । अदन्नर्क च सोमं च विषं पीत्वा क्षयं गतः ॥ " वारिवारणशब्दोऽत्र नेयार्थोऽपि न दुष्यति । असमर्थावपि विषक्षयौ स्वार्थे न दुष्यतः ॥ ८१ ॥ अन्यदप्येवमेवोह्यमुदाहरणदर्शने । " बल्यरेिक्रत्वरी पातां साम्बुव्यम्बुधनोपमौ । सदृशौ बककाकाभ्यां च वै तु हि च वै तु हि ॥ " निरर्थकं न दुष्टं स्याद्धास्येच्छान्दसभाषिते ॥ ८२ ॥ बल्यरिक्रत्वरीत्यत्र कष्टसन्ध्यप्यदूषणम् । " कण्डूतेरप्रतीकारादन्तर्लिङ्गाविमर्दनात्' । न. द्रवन्ति न तृप्यन्ति योषितो नीचमेहने ॥ " अत्र व्रोडाऽक्ष्लीलमपि कामतन्त्रे न दूषणम् ॥ ८३ ॥

" उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । क्लेदने स्रीत्रणे सक्तिरक्रिमेः कस्य जायते ॥ " जुगुप्साक्षीलमप्यत्र विरक्तोक्तौ न दूषणम् । "पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । 1. वमर्दनात् ; ङ्गविमर्दनातू. 2. मैथुने.