पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वष्टः परिच्छेदः " अरे रामाहस्ताभरण भसलश्रेणिशरण समक्रीडात्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदलनीलोत्पलसखे सखेदोऽहं मोहं क्ष्लथय कथय कन्दुक्दना ॥ " विरहिदमनेति मुक्तवा स्वीकुरुते सखिपदेन पुनरेव ॥ ७५ ॥ अक्ष्लीलो मुख्यार्थादन्यो व्रीडाकुरो मतः स यथा । " हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाऽस्य जायते पातो न तथा पुनरुन्नतिः ॥ " अत्र ध्वन्यो मुख्यादन्यार्थो ज्ञायते हि लज्जायै ॥ ७६ ॥ विध्यनुवादविवृत्तो' विध्यनुवादौ विवर्तितौ स यथा । " प्रयत्रपरिबोधितः स्तुतिभिरद्य शेषे निशा मकेशवमपाण्डवं भुवनमद्य निस्सोमकम् । इयं परिसमाप्यते रणकथाद्य दोःशालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥ " शयितः परिबोध्य स इति वक्तव्यमिहानुवादविधियुगळम् ॥ ७७ ॥ सहोत्कृष्टैर्निकृष्टोक्तिभिंन्नं सहचरैर्यथा । "श्रुतेन बुद्धिर्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालङ्क्रियते नरेन्द्रता ॥ " उत्कृष्टेभ्यः श्रुतादिभ्यो भिन्ने व्यसनमूर्खते ॥ ७८ ॥ दोषा एव गुणीभावं प्राप्नुवन्ति कचित्कचित् । " सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट 1. फलकृच्छ्रेण 2. प्रकृद्धस्य. 3. सञ्जायते. 4. निवृतो. 5. निबर्तितौ.