पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वष्टः परिच्छेदः ६७

इदं तद्दुस्साधाक्रमणपरमास्र स्मृतिभुवा तव प्रीत्या चत्र्कं करकमलमूले विनिहितम् ॥ " चत्र्कं मनोभवस्यास्रमप्रसिद्धमिहोच्यते । विद्याविरुद्धः स्मृत्यादिविरोधात्कथितो यथा ॥ ६६ ॥ " सदा स्रात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्राणि व्याचष्टे च श्रुणोति च ॥ " उपरागं विना रात्रौ खानं तु श्रुतिगर्हितम् । व्यर्थीकृतो यच्छ्लाध्यानां व्यर्थत्वापादनं यथा ॥ ६७ ॥ " प्राप्ताः श्रियः सकलकामदुघास्ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किम् । सन्तर्पिताः प्रणयिनो विभवैस्ततः किं 'कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ " अत्र व्यर्थत्वमेवोक्तमर्थानां न प्रयोजनम् । नियमोऽनुचितेऽर्थे यः स स्यात्सनियमो यथा ॥ ६८ ॥ " कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र । अपसरणमेव शरणं मौनं वा राजहंसस्य ॥ " अत्रापसरणे युक्तो 'नियमेनैवकारतः । मौनं वेत्यन्यपक्षस्य संभाद्दूषणं हि यत् ॥ ६९ ॥ नियमे सति वक्तव्ये तत्यागोऽनियमो यथा । " चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना ॥ " एकेनैवेति वक्तव्ये वात्र नियमः कृतः ॥ ७० ॥

1. कल्पस्थितं. 2. नियमो नैवकार्यंत: ; नैवकारतः. 3. नियमेनेति.