पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वष्टः परिच्छेदः ६५ “ अतिक्तिगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुतुलूसिद्सौरभकमलाकरहासकृद्धविर्जयति ॥ ” विमुक्तविश्रमानन्दौ पुष्यतो न रवेर्जयम् । कष्टः कृच्छ्रेण विज्ञेयः शब्दसङ्गेपतो यथा ॥ ५८ ॥ " कलशे निजहेतुदण्डज: किमु चक्रभ्रमकारिता गुणः । स तदुच्चकुचौ भवन् प्रभा- झरचक्रभ्रमातनोति यत् ॥ " अत्यन्तव्यवधानेन ज्ञायतेऽर्थोऽत्र नो हठात् । अनादृतस्यैवोत्कर्षो वाक्ये स्याद्वयाहतो यथा ॥ ५९ ॥ " जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ " अनादृत्येन्दुरेखाचं क्ष्लाध्यते चन्द्रिकात्विह । एक एव द्विरुक्तोऽर्थः पुनरुक्तो मतो यथा ॥ ६० ॥ “ अस्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन् भम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं सम्भ्रमेण व्रज कृप समरं मुञ्च xxxxxxxxxx ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥ " पौनरुक्तयमिहार्थस्य प्रसिद्धं समपादयोः । वक्तव्योरर्थयोर्यो व्युत्क्रमो दुष्क्रमो यथा ॥ ६१ ॥ 1. विक्रभानन्दः.