पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षटः परिच्छेदः


रवः श्रवणमैरवः स्थगितरोदसीकन्दरः कृतोऽद्य समरोदधेरयमभूतपूर्वक्रमः ॥” 'स्व इति शब्दविशेषणं शब्दमात्रे प्रसिद्धिभाग्भवति । भग्नप्रक्रममुक्त्तं यत्र प्रक्रान्तरूपमङ्गः स्यात् ॥ ४८ ॥ तदनेकधा विभेदैः प्रकृतिप्रत्ययमुखैः क्रमेण यथा । " नाये निशाया नियतेर्नियोगा- दस्तं गते हन्त निशापि याता । कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं किमस्ति ॥ गत इति तु प्रक्रान्ते यातेति प्रकृतिरत्र भङ्गकती ॥ ४९ ॥ " यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंस्त्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥" अत्र सुखलिप्सयेति प्रत्ययभङ्गो विविच्य विज्ञेयः । अन्येऽप्यन्न ज्ञेयाः प्रत्ययभङ्गा न तु प्रपञ्च्यन्ते ॥ ५० ॥ यत्र' विहितः क्रमः स्यादक्रममिति वाक्यमामनन्ति यथा । " निर्भाणस्थितिसंहारहेतवो जगतां मताः । विण्णुत्रिलोचनाम्भोजयोनयः पालयन्तु वः ॥ " परभष्ठिहरिरा इति वाच्ये भग्रः क्रमो भक्त्यत्र ॥ ५१ ॥ अमतपदार्थ यत्र प्रकृतविरुद्धार्थकथनमेव यथा । 1. रुतमिति शब्दविशेषेण; 2. विशेषणेन. 3. पिभिम्नम्. 4. विद्दितः. 5. परिपान्तु. 6. परार्थ . 7. प्रकृति.