पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६३ अलद्वारसङ्ग्रहः

पार्वत्या नखलक्ष्मशङ्कितस्वीनर्मस्मितहीतया प्रोन्मृष्टः करपल्लबेनकुटिला ताम्रच्छविः पातु वः ॥" कुटिलाताम्रच्छविरिति नखलक्ष्मेत्यादितः पुरा वाच्यम् ॥ ४३ ॥ अस्थानस्थसमासं यत्रास्थाने समासशलि यथा । "अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लकैरवकोशनिस्सरदळिश्रेणीकृपाणं शशी ॥' क्रुद्धोक्तावत्र कृतो न समासः किन्तु कविवचस्येव ॥ ४४ ॥ सङ्कीर्ण यखेत वाक्यपदानीतरत्र सन्ति यथा । " किमिति न पश्यसि कोपं पादगतं बहुगुणं गुहाणमम् । ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥' अधिकस्फुटमितरेतरवाक्यपदानां मिथः प्रवेशोऽत्र ॥ ४५ ॥ क्लिष्टत्वमेकवाक्ये वाक्यबहुत्वे तु भवति सङ्कीर्णम् । गर्भितमितरद्वाक्यं वाक्यस्यैकस्य यत्र मध्येऽस्ति ॥ ४६ ॥ “परापकारनिरतैर्दुर्जनैः सह सङ्गतिः । कदामि भक्तस्तत्वं न विधेया कदाचन ॥' वाक्यमिदमितरवाक्ये स्थितमिह भवतो वदामि तत्त्वमिति । यत्र प्रसिद्धिहीनं प्रसिद्धियुतमुच्यते पदं तु यथा ॥ ४७ ॥ " महाप्रलयमारुतक्षुभितपुष्कलावर्तक- प्रचण्डधनगर्जितप्रतिरुतानुकारी मुहुः ।

1. xxxxx 2. xxxxx