पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः

आकृतिपदेन वाक्यं विनापि संपूर्णमेव भक्तीह । कथितपदं यद्यस्मिन् पदस्य कथितस्य कथनमेव यथा ॥ ३६ ॥ "अधिकरतलतम्पं कल्पित xxxxxx पxमिलननिभांलत्पण्डिमा गण्डपाळी । सुतनु कथय कस्य व्यxxxxxxx xxxxx यौवराज्याभिषेकम् ॥ " लीलेति पूर्वकथितं पुनरपि लीलेति कीथितमेतस्मिन् । यस्मिन्नधः प्रकृष्टं पतत्प्रकर्ष तदामनन्ति यथा ॥ ३७ ॥ " कः कः कुत्र न र्घृर्घृरायितघुरी घोरो धुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥' अत्र करिणः प्रकृष्टान्महिषाणामुपरिकीर्तनं कुरुते । पुनरपि समाप्य कथितं समाप्तपुनरात्तमिति वदन्ति यथा ॥ ३८ ॥ “क्रेङ्कारः xxकार्मुकx सुतक्रीडापिकानां रवः झङ्कारो रतिमञ्जरीम्धुलिहां लीलाचकोरीध्वनिः । तन्व्याः कञ्चुलिकापसारणभुबाक्षेपस्खलत्कङ्कण काणः प्रेम तनोतु वो नवक्योलास्याय वेणुस्वनः ॥” अत्र समाप्तोऽप्यर्थः xxxxxxx ऽन्त्वपादान्त्ये । अर्थान्तरैकवाचकमपरार्थगतैकवाचकं तु यथा ॥ ३९ ॥ 1. अथिमृदुतर. 2. xxxxx xxxx.