पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५७ अलंङ्कारसङ्ग्रहः

" धीरो विनीतो निपुणो वराकारो नृपोऽत्रसः । यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभाविताः ॥" उपहततामाद्यार्धे याति विसर्गः परेण लुप्तत्वम् । वैरूप्यं विक्ष्लेषोऽक्ष्लीलत्वं कष्टता च सन्धेः स्युः ॥ २९ ॥ दोषास्तत्तद्वाक्यं विसन्धि विबुधाः क्रमाद्वदन्ति यथा । “ राजन् विभन्ति भवतश्चरितानि तानि इन्दोर्घुतिं दधति यानि रसातलेऽन्तः । धीदोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः ॥" सकृदेवहिते ऽत्र दोषे विहितेऽप्यसकृञ्च भवति वैरूप्यम् ॥ ३० ॥ " तत उदित उदारहारहारि- घुतिरुच्चैरुदयाचलदिवेन्दुः । निजवंश उदात्तकान्तकान्ति- र्बत मुक्तामणिवच्चकास्यनर्घः ॥” अत्र विहितेऽपि दोषो विक्ष्लेषस्त्वसकृदेव विज्ञेयः । "विद्यामभ्यसतो' रात्रावेति या भवतः प्रिया । वनिता गुह्यकेशानां कथं ते पेलवं वनम् ॥' सन्धावक्ष्लीलत्वं दोषोऽत्र विवेकशालिभिर्ज्ञेयः ॥ ३१ ॥ " उर्व्यसावत्र तर्वाली सर्वर्तौ चार्ववस्थितिः । नात्र प्रयुज्यते गन्तुं शिरो नमय तन्मनाक् ॥' इह कष्टत्वं सन्धेः क्लिष्टतया कथ्यते सकृद्दोषः । अयथात्वं गुरुलध्वोः वर्णानां यत्रहीनताधिक्ये ॥ ३२ ॥ 1. प्रचारिता, , 2. भ्यस्यतो. 3. क्रमते.