पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः परिच्छेदः ५५ xxxxx पशुपदं शरे कातरतामिह । विवक्षितार्थादन्यच सन्दिग्धं द्योतयेद्यथा ॥ १५ ॥ " आलिङ्गितस्तत्र भवान् सांपराये जयश्रियम् । आशीः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥" अत्र वन्घामिति पदं xxxxमस्ययोः । ल्किष्टिं व्यवहितार्थस्य द्योतकं स्यात्पदं यथा ॥ १६ ॥

  • अत्रिलोचनसंभूतज्योतिरुद्रमभासिभिः ।

सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ॥ " अत्रिलोचनसंभूतश्चन्द्रस्तज्ज्योतिरुद्रमात् । भासीनिकुमुदानीति ल्किष्टत्वं व्यवधानतः ॥ १७ ॥ अविमृष्टविधेयांशं प्राधान्याद्येन तद्यथा । " स्रस्तं नितम्बादवलम्बमानां ‘मुहुर्मुहुः केसरदामकाञ्चीः । न्यासीकृतां स्थानविदा स्मरेण मौर्वीद्वितीयमिव कार्मुकस्य ॥ " प्राधान्येनात्र निर्दिष्टो विधेयांशो द्वितीयया ॥ १८ ॥ इष्टान्यदुष्टधीकारी विरुद्धमतिकृद्यथा ॥ " सुधाकरकराकारविशारदविचेष्टित: । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ॥ " प्रयोजनं विना मित्रमित्यत्रार्थे विवक्षिते ॥ १९ ॥ अकर्ये भित्रमित्यन्यो विरुद्धार्थः प्रतीयते । 1. व्यनत्तषर्थ. 2. समस्ययोः 3. प्राधान्याद्यन्न. 4. पुनः पुनः; 5. विचेष्टितम् .6.अकार्पमित्यन्यो.