पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्ग्रहः "मूदुपक्नविभिन्नो मत्प्रियाया विनाशात् घनरुचिरकलापो निःसपत्नोद्य जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः सतिकुसुमसनाथे कं हरदेष बहीं ॥" मत्प्रियायाविनाशादित्येतत्पदममङ्गळम् ॥ ११ ॥ “साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ॥" अत्र साधनशब्दोऽयं ब्रीडोत्यत्तिकरो मतः । ग्रामीणयोग्यं यद्ग्रभ्यं निन्धं नागरिकैर्यथा ॥ १२ ॥ “राकाविभिावरीकान्तसङ्कान्तघुति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥" कटिशब्दोऽत्र 'गोप्याङ्गवाचकत्वेन गर्ह्वते । नेयार्थं यदसामर्थ्याद्दूरार्थद्योतकं यथा ॥ १३ ॥ " शरत्कालसमुल्लसिपूर्णिमाशर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनातिथिम् ॥ xxxx सामर्ध्यान्नाभिघत्ते जयं त्विह । तदेवानुचितार्थ स्याद्यस्यार्थोऽनुचितो यथा ॥ १४ ॥ "तपस्विभिर्या युचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं मनस्विनो रणाश्वमेधे पशुतामुपागताः ॥ " मधुपवनविभिन्ना. 2. घनरुचिरकलापा. 3. शिखा. 4. गुत्थाङ्ग. 5 यदसामर्ध्यान्मषार्थ; यदसामर्ध्यमूलार्थ. 6. सxxxस. 7.प्रयन्नतो दा च मखीभिरिष्यते; 8.यxखिनो.