पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः 'यथार्थदर्शिनः पुंस्ते यथाद्दष्टार्थवादिनः ॥ ६१ ॥ उपदेशः परार्थो यः आगमः स मतो यथा । परापकारनिरतैदुर्जनैः सह सङ्गतिः ॥ ६२ ॥ वदामि तत्त्वं भवतो न विधेया कदाचन । सादश्यात्सदृशज्ञानमुपमानमिहोच्यते ॥ ६३ ॥ अनुभूतार्थमननुभूतार्थ द्विविधं यथा । " अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ " " तां रोहिणीं विजानीहि ज्योतिषामल मण्डले । समूहस्तारकाणां यः शकटाकारमाश्रितः ॥" दृष्टः ' श्रतोपि यो वार्थः स्वस्यैवानुपपत्तितः ॥ ६४ ॥ प्रसूतेऽर्थान्तरे बुद्धिं साऽर्थापत्तिर्मता यथा । निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ॥ ६५ ॥ अन्यथा नोपपद्येत पयोधरभरस्थितिः । " रुचिधाभ्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । ज्वलनं त्विषः कथमिवेतस्था सुलभोन्यजन्मनि स एव पतिः ॥ " अर्थस्याविद्यमानत्वमभाव इति कथ्यते ॥ ६६ ॥ 1. यथार्थदर्शनः पुंसा. 2. पदार्थो. 3. समूहु. 4.हष्किक्ष्रितोपि. 5. अभिभाव्य.