पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ तत्प्रत्यक्षं समाख्यातं मनसा चेन्द्रियाणि षट् । प्रत्यक्षं द्विविधं निर्विकल्पकं सविकल्पकम् ॥ ५७ ॥ नामादिभिर्विशिष्टार्थविषयं सविकल्पकम् । अवशिष्टार्थविषयं प्रत्यक्षे निर्विकल्पकम् ॥ ५८ ॥ इन्द्रियोत्पन्नविज्ञानं प्रत्यक्षालङ्कृतिर्यथा । " क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । ’ स्वादुनि प्रणुदितालिनिशीथे निर्ववार मधुनीन्द्रियवर्गः ॥ " निवृत्तिर्मनसो वृत्तिरिन्द्रियैरुपनीयते ॥ ५९ ॥ हेतुना हेतुमञ्ज्ञानमनुमानं तदुच्यते । दृष्टं सामान्यतो द्दष्टमिति चास्य विधाद्वयम् ॥ ६० ॥ पूर्वं प्रत्यक्षयोग्यार्थमन्यार्थमितरद्यथा । " चूर्णबभ्रुललितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनः तस्य विभ्रमरतान्यवेदयत् ॥ " " परिरम्भपरं निजं निरुन्धे करयोः केवलमेव कर्म कान्तम् । पुलकैः पुनरुच्यते भवत्याः पुर एव स्फुटमायताक्षि भावः ॥ " 1. चूर्णनागलतसूर्णसङ्कलं मिन्नमेखलभलक्त्तकाचितम् ।