पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xxxxxxxxx

प्रागभावोऽथ प्रध्वंसश्चान्योन्याभाव एव च । अत्यन्ताभाव इत्येवं चतुर्धा भिद्यते यथा ॥ ६७ ॥ " अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां व्यसनं जायते नृणाम् ॥ " " तिरस्तभिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः । गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे' ॥ " कर्णोत्पलं न चक्षुस्ते न चक्षुःश्रवणोत्पलम् । इति जानन्नपि मनो मन्यते दीर्धनेत्रताम् ॥ ६८ ॥ "xxxxत्यजनाद्द्विरुक्त्तैः पञ्चेषुबाणैः पृथगर्जितासु । दशासु शेषा खलु तद्दशाया तया नभः पुष्यतु कोरकेण ॥ " आढकं सम्भवेद्द्रौणे सहस्त्रेपि शतं यथा । आहुरेवं विधं ज्ञानं सम्भवं मुनयो यथा ॥ ६९ ॥ " ये नाम के चिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यलः । उत्पत्स्यते मम तु कोपि समानधर्मा कालोह्ययं निरवधिर्विपुला च पृथ्वी ॥" प्रवादपारम्पर्य यदनिर्दिष्टप्रव्रक्तृकम् । ऐतिह्यमिति विज्ञेयं प्रमाणं-पण्डितैर्यथा ॥ ७० ॥ 1. ते. 2. ब्रनो. 3. प्रवर्तकम्.