पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ अलङ्कारसङ्ग्रहः “ कीर्तिस्ते दायता तदीयजठरे लोकत्रयं वर्तते तस्मात्त्वं जगतां पिता पितृधनं तेनार्थिनां त्वद्धनम् । "त्यागं,ते जगदेकमल्लनृपते त्यागं न मन्यामहे कस्त्यागः स्वकुटुम्बपोषणविधाचर्थव्ययं कुर्वतः ॥ " अर्थान्तरमुपन्यस्य किञ्चित्तत्सदृशं यदि ॥ ४६ ॥ सदसद्वा निदर्श्येत निदर्शनमिदं यथा । " अणुमपि परकीयं हन्त सन्तो नयन्ते गुणमधिकमनोज्ञ' तद्धि तेषां स्वभावः । सरसिजकुहरान्तः पत्रमात्रप्रभूतं परिमलमपि वाताः किं न विस्तारयन्ति ॥ " “दुर्जनः परिहर्तव्यो धीमता सख्यवैश्योः। श्वा भवत्यपकाराय लिहन्नपि दशन्नपि ॥" सहोक्तिः सह भावानां वस्तूनां कथनं यथा ॥ ४७ ॥ दिगन्तमगमत्तस्य कीर्तिः प्रत्यर्थिभिः सह । सह दीर्धा मम श्वासैरिमास्संप्रति रात्रयः ॥ ४८ ॥ पाण्डुराश्च ममैवाङ्गै सह ताश्चन्द्रभूषणाः । 'काम्भोजास्समरे सोढुं तस्य वीर्यमनीश्वराः ॥ ४९ ॥ गजालानपरिक्लिष्टैरङ्कोलैः साधेभानताः । भर्थानां यो विनिमयः परिवृत्तिस्तु सा यथा ॥ ५० ॥ कयावेक्रयदमृस्ते स्वङ्गो भूपाल वैरिणाम् । हृत्वा भूमण्डलं दत्ते रम्भायाः कुचमण्डलम् ॥ " 1. त्वदीय. 2. तत्तैश्च सम्भुज्यते 3. A. वीरश्रीरणरङ्गमल्लनृपते. 4. गुरुत्वं. 5. भूझग्नपि. 6. सार्म व चन्द्रभूषणः. 7. काम्बोजा, 8. : र्मिथो. 9 धत्ते,