पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्वकारणं निराकृत्य कारणान्तरकल्पकम् ॥ २७ ॥ विभावना स्वभावो वा 'विभाव्यो यत्र सा यथा । " असम्भृतं मण्डनमङ्गयष्टे रनासवास्त्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमखं बाल्यात्परं साऽथ वयः प्रपेदे ॥' "अनञ्जितिा सिता दृष्टिर्भ्रूरनावर्जितानता । अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ॥ " क्स्तु किञ्चिदभिप्रेत्य ततुल्ययान्यवस्तुनः ॥ २८ ॥ उक्तिः ‘संक्षेपरूपत्वात्सा समासोक्तिरिष्दे । अन्यापदेश इत्यासीन्नामान्यच्चोच्यते यथा ॥ २९ ॥ " मुग्धे यथा कलयसे मृगतृष्णिकाम्भ: "तद्विद्धि तामरसनेत्रि तटाकवारेि । अस्मिन्यथेष्टमवगाह्य सुखं विहृत्य चिन्तां परां कुरु चिराय विमुञ्च तापम् ॥ " “विवक्षितार्थविषये लोकवृत्तातिशायिनि । उक्तिस्त्वतिशयोक्तिः स्यादनुद्वेगकरी यथा ॥ ३० ॥ "यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया । मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ " 1. A दिभादो 2. अरञ्जिता. 3.A यथा 4. रूपास्यात्. 5. A. अन्यापदेशः इत्यस्य नामान्यत्रोच्यते यथा 6. A तद्धोर, 7. चिन्तामपाकुरु. 8. A. बिलक्षितार्य.