पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः परिच्छेदः ३९ उक्तस्यानेकदोक्ति': स्यादावृत्तिः सा मता यथा । “विधं जित्वा भवानद्य विहरत्यवरोधनैः । विहरत्यप्सरोभिस्ते रिषुवगों दिवं गतः ॥ " आक्षेपः प्रतिषेधोक्तिः कालधर्मादिनात्मना ॥ २४ ॥ आक्षेप्याणामनन्तत्वादाक्षेपोऽपि तथा यथा । " कस्तूरीतिलकं फाले बाले मा कुरु मा कुरु । अद्य साम्यं भामीति जुम्भते शशलाञ्छनः ॥ " प्रस्तुतार्थस्य सिद्धार्थं विन्यासोऽर्थान्तरस्य यः ॥ २५ ॥ असावर्थान्तरन्यासो भिद्यते बहुधा यथा । " आतपे धृतिमता सह वध्या यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेः दुःखिते मनसि सर्वमसह्यम् ॥" शब्दे प्रातीतिके वापि ‘सादृश्यं यत्र वस्तुनोः ॥ २६ ॥ तयोर्यद्द्भेदकथनं व्यतिरेको मतो यथा । " अभिन्नवेलै गम्भीरावबुराशिर्भवानपि । असादञ्जनसङ्काशस्त्वं तु चामीकरघुतिः । " “हीना दान्गुणेन हेमवलयैस्त्यक्ता गता विभ्रमै भूयस्त्वत्परिभूतिसंशयक्ती मध्येजलं संश्रिता । किंचैतत्कुचकुम्भयुमविलसत्क्षौमापिधानोज्झिता बाले बालमृणालिका कथमियं त्वद्वाहुवल्लीसमा ॥ " 1. अनेकधोक्ति. 2. कालधर्मादिकात्मनाम्. 3. प्रतीतिके 4. सादृश्ये सति 5. xxxxxx 6. मीतात्वत्वरिमूति A. भीतास्तत्परि. 7. A. नोxxता